SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 516 // पश्चममध्ययन पवस्थानम्, प्रथमोद्देशकः सूत्रम् 389 महाव्रताऽणुव्रतानि पंच महव्वया पं० तं०- सव्वातो पाणातिवायाओ वेरमणं जाव सव्वातो परिग्गहातो वेरमणं / पंचाणुव्वता पं० तं०- थूलातो पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिन्नादाणातो वेरमणं सदारसंतोसे इच्छापरिमाणे॥सूत्रम् 389 // अस्य च पूर्वसूत्रेण सहायंसम्बन्धः- पूर्वसूत्रे अजीवानांपरिणामविशेष उक्तः इह तुस एव जीवानामुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या संहितादिक्रमेण, स च क्षुण्ण एव, नवरं पञ्चेति सङ्घयान्तरव्यवच्छेदस्तेन न चत्वारि, प्रथमपश्चिमतीर्थयोः पञ्चानामेव भावाद्, महान्ति- बृहन्ति तानि च तानि व्रतानि च-नियमा महाव्रतानि, महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वाद्, उक्तञ्च-पढममि सव्वजीवा बीए चरमे असव्वदव्वाई। सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं॥१॥(आव०नि० 574, विशेषाव० 2637) इति, ('तदेकदेसेणं ति तेषां- द्रव्याणामेकदेशेनेत्यर्थः) तथा यावज्जीवं त्रिविधं त्रिविधेनेति प्रत्याख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतोवा गुणिनो व्रतानि महतानीति, पुँल्लिङ्गनिर्देशस्तु प्राकृतत्वादिति, प्रज्ञप्तानि- तथाविधशिष्यापेक्षया प्ररूपितानि महावीरेणाद्यतीर्थकरेण च न शेषैरिति, एतत्किल सुधर्मस्वामी जम्बूस्वामिनं प्रतिपादयामास, तद्यथा सर्वस्मात्- निरवशेषात्त्रसस्थावरसूक्ष्मबादरभेदभिन्नात् कृतकारितानुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थाच्च, न तु परिस्थूरादेवेति भावः, प्राणानां- इन्द्रियोच्छ्रासायुरादीनामतिपातः- प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थस्तस्माद्विरमणं-सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनमिति, तथा सर्वस्मात्-सद्भावप्रतिषेधा१सद्भावोद्भावन 2 अर्थान्तरोक्ति ३गर्दाभेदात् 4 कृतादिभेदाच्च अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतःसर्वलोकालोकगोचरात् (r) प्रथमे सर्वे जीवा द्वितीये चरमे च सर्वद्रव्याणि / शेषाणि महाव्रतानि खलु तदेकदेशे द्रव्याणाम् / / // 51 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy