________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 515 // पशस्थानम्, प्रथमोद्देशक: // अहम् // पञ्चममध्ययन // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-३-ग्रन्थाङ्कः-३/२॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमच्चन्द्रगच्छालङ्कार-नवाङ्गीटीकाकारश्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीमत्स्थानाङ्गसूत्रम्। द्वितीयो विभागः // अथ पञ्चममध्ययन पञ्चमस्थानाख्यम् / ॥प्रथमाध्ययने प्रथमोद्देशकः॥ व्याख्यातं चतुर्थमध्ययनम्, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चायं विशेषाभिसम्बन्ध इहानन्तराध्ययने जीवाजीवतद्धर्माख्याः पदार्थाश्चतुःस्थानकावतारणेनाभिहिता, इह तु त एव पञ्चस्थान-॥५१५ // कावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोद्देशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवद् द्रष्टव्यस्तस्य चेदमादिसूत्रं