________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 736 // मेरुप्रत्यासन्नमेवं सवंगजदन्तकेषु सिद्धायतनानि, शेषाणि ततः परम्परयेति, सोमणसे त्ति, सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितम्, मङ्गलावतीविजयसमनामदेवस्य मङ्गलावतीकूटम्, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विमलकाञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधानाधोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवास, एवमुत्तरत्रापि, गन्धमादनो गजदन्तक एवोत्तरकुरूणां प्रतीचीनः / तत्र सिद्धे गाहा, कण्ठ्या, नवरं स्फाटिककूटे लोहिताक्षकूटे अधोलोकनिवासिभोगङ्कराभोगवत्यभिधानदिक्कुमारीद्वयनिवासभूते इति ॥कूटेष्वपि पुष्करिणीजले द्वीन्द्रियाः सन्तीति द्वीन्द्रियसूत्रं बेइंदियाण मित्यादि, जातौ- द्वीन्द्रियजातौ याः कुलकोटयस्तास्तथा ताश्च ता योनिप्रमुखाश्चद्विलक्षसङ्ख्यद्वीन्द्रियोत्पत्तिस्थानद्वारकास्ता जातिकुलकोटियोनिप्रमुखाः / इह च विशेषणं परपदंप्राकृतत्वात्, तासांशतसहस्राणिलक्षाणीति, इदमुक्तं भवति- द्वीन्द्रियजातौ या योनयस्तत्प्रभवा याः कुलकोटयस्तासां लक्षाणि सप्त प्रज्ञप्तानीति, तत्र योनिर्यथा गोमयस्तत्र चैकस्यामपि कुलानि विचित्राकाराः कृम्यादय इति।शेषा ध्रुवगण्डिका ससम्बन्धा पूर्ववद्व्याख्येयेति॥ इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे सप्तस्थानकाभिधानं सप्तममध्ययनं समाप्तम्॥ सप्तममध्ययन सप्तस्थानम्, सूत्रम् 588-593 सातासातवेदनीयानुभावाः, अभिजिदादिकानि पूर्वादि| द्वाराणि नक्षत्राणि, | सौमनस गन्ध-मादन| कूटाः , द्वीन्द्रियकुलकोटयः, पुद्गलचयनादिस्थानानि, सप्तप्रदेशिकाद्या: पुद्गलाः // 736 // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीयाङ्गे सप्तस्थानाख्यं सप्तममध्ययनं समाप्तमिति //