________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 733 // कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवत् किञ्चित् पुनः स्पृष्टं बद्धं निकाचितं जीवेन सहकत्वमापन्नं कालान्तरेण सप्तममध्ययन वेद्यते इत्येवमाकर्योक्तवान्- नन्वेवं मोक्षाभावः प्रसजति, कथं?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात्, सप्तस्थानम्, सूत्रम् 587 स्वप्रदेशवद्, उक्तं च-सोउं भणइ सदोसं वक्खाणमिणति पावइ जओ ते। मोक्खाभावो जीवप्पएसकम्माविभागाओ॥१॥ नहि निवकम्म जीवाओ अवेइ अविभागओ पएसव्व। तदणवगमादमोक्खो जुत्तमिणं तेण वक्खाणं॥२॥ (विशेषाव०२५१५-१६) इति तद्धर्माचार्यो त्पत्तिनगराणि तथा- जीवः कर्मणा स्पृष्टो न तु बद्ध्यते, वियुज्यमानत्वात्, कञ्चुकेनेव तद्वानिति, ततो विन्ध्यसाधुनैतस्मिन्नाचार्यायार्थे / (निलववादः) निवेदिते यस्तेनाभिहितो- आचार्यादवधार्यार्थं गोष्ठामाहिलो विन्ध्येनोक्तः, भद्र! यदुक्तं त्वया जीवात् कर्म न वियुज्यत इति, तत्र प्रत्यक्षबाधिता प्रतिज्ञा आयुःकर्मवियोगात्मकस्य मरणस्य प्रत्यक्षत्वाद्, हेतुरप्यनैकान्तिकोऽन्योऽन्याविभाग-2 सम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनाद्, दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य वियुतत्वासिद्धेस्तद्रूपेणानादिरूपत्वाद् भिन्नं च जीवात् कर्मेति, यच्चोक्तं- जीवः कर्मणा स्पृष्टो न बध्यते इत्यादि, तत्र किं प्रतिप्रदेशं स्पृष्टो नभसेवोत त्वङ्मात्रे कञ्चुकेनेव?, यद्याद्यः पक्षस्तदा दृष्टान्तदान्तिकयोवैषम्यं कञ्चकेन प्रतिप्रदेशमस्पृष्टत्वाद्, अथ द्वितीयस्ततोनापान्तरालगत्यनुयायिकर्म, पर्यन्तवर्त्तित्वाद्, बाह्याङ्गमलवद्, एवं सर्वो मोक्षभाक्कर्मानुगमरहितत्वामुक्तवद्, इत्यादि प्रतिपाद्यमानो यो नैतत्प्रतिपन्नवानुद्घाटितश्चेति सोऽयमबद्धिकधर्माचार्य इति / उत्पत्तिनगराणि सप्तानां क्रमेण सप्तैव Bहोत्थ'त्ति सामान्येन वर्तमानत्वेऽपि नगराणां तद्विशेषगुणातीतत्वेनातीतनिर्देशः, सावत्थी गाहा, ऋषभपुरं- राजगृहम्, उल्लुका 0 श्रुत्वा भणति इदं व्याख्यानं सदोषमिति यतो भवतां प्राप्नोति। मोक्षाभावो जीवप्रदेशकर्मणोरविभागात् // 1 // नैव कर्म जीवादपैति प्रदेश इवाविभागात् / तदनपगमादमोक्षस्तेनेदं व्याख्यानं युक्तम् (स्पृष्टमात्रतारूपम्) // 2 // // 733 //