SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 732 // विसर्पदर्पगर्भया भारत्याऽभिहितो-रेरे दुष्टशैक्ष! कस्मादस्मासु सत्स्वेवमप्रज्ञापनीयं प्रज्ञापयसि?, यत इहैव स्थाने स्थितेन सप्तममध्ययन भगवता वर्द्धमानस्वामिना प्रणिन्ये- यथैकदैकैव क्रिया वेद्यत इति, ततस्त्वं ततोऽपिलष्टतरो जातः? / छईयैनं वादम्, मा ते सप्तस्थानम्, सूत्रम् 587 दोषाद् नाशयिष्यामीति भयमापन्नःप्रतिबुद्धः, सोऽयं द्वैक्रियाणां धर्माचार्य इति 5 / तथा छलुए त्ति, द्रव्यगुणकर्मसामान्य निह्नवविशेषसमवायलक्षणषट्पदार्थप्ररूपकत्वाद् गोत्रेण च कौशिकत्वात् षडुलुको, यो हि नामान्तरेण रोहगुप्तो, यश्चान्तर यां तद्धर्माचार्योपुर्यां भूतगुहाभिधानव्यन्तरायतने व्यवस्थितानां श्रीगुप्ताभिधानानामाचार्याणांवन्दनार्थं ग्रामान्तरादागच्छन् प्रवादिप्रदापित त्पत्तिनगराणि | (निह्नववादः) पटहकध्वनिमाकर्ण्य सदर्थं च तं निषेध्याचार्यस्य तन्निवेद्य ततो मायूर्यादिविद्या उपादाय राजकुलमतिगत्य बलश्रीनाम्नो नरनायकस्याग्रतः पोशालाभिधानपरिव्राजकप्रवादिनमाहूय तेन च जीवाजीवलक्षणे राशिद्वये स्थापिते तत्प्रतिभाप्रतिघाताय नोजीवलक्षणं तृतीयं राशिं व्यवस्थाप्य तद्विद्यानां स्वविद्याभिः प्रतिघातकरणेन तं निगृह्य गुरुसमीपमागत्य तन्निवेदितवान्, यश्च गुरुणा अभिहितो, यथा-गच्छ राजसभामनुप्रविश्य ब्रूहि राशियप्ररूपणमपसिद्धान्तरूपंवादिपरिभवाय मया कृतमिति, ततो योऽभिमानादाचार्यं प्रत्यवादीत्-यथा राशित्रयमेवास्ति, तथाहि- जीवा:- संसारस्थादयोऽजीवा-घटादयो नोजीवास्तु दृष्टान्तसिद्धाः / यथा हि दण्डस्यादिमध्याग्राणि भवन्तीत्येवं सर्वभावानां त्रैविध्यमिति, यश्च राजसमक्षमाचार्येण कुत्रिकापणे जीवयाचने पृथिव्यादिजीवलाभादजीवयाचने अचेतनलेष्ट्वादिलाभाद्नोजीवयाचनेऽचेतनलेष्ट्वादिलाभाच्च निगृहीतः, सोऽयं त्रैराशिकधर्माचार्य इति 6 / तथा गोष्ठामाहिल इति, यो हि दशपुरनगरे आर्यरक्षितस्वामिनि दिवं गते आचार्यश्रीदुर्बलिकापुष्पमित्रे गणं परिपालयति विन्ध्याभिधानसाधोरष्टमं कर्मप्रवादाभिधानं पूर्वमाचार्यादुपश्रुत्य प्रत्युच्चारयत: कर्मबन्धाधिकारे / किश्चित्कर्म जीवप्रदेशैः स्पृष्टमात्रं कालान्तरस्थितिमप्राप्य विघटते शुष्ककुड्यापतितचूर्णमुष्टिवत् किञ्चित्पुनः स्पृष्टं बद्धं च // 732 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy