________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 729 // यद्येकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स सप्तममध्ययन एवैकः प्रदेशो जीव इति, तद्भावभावित्वाज्जीवत्वस्येति, आह च-एगादओ पएसा न य जीवो न य पएसहीणोवि। जं तो स जेण सप्तस्थानम्, सूत्रम् 587 पुनो स एव जीवो पएसोत्ति॥१॥ (विशेषाव० 2336) यश्चैवमभिदधानो गुरुणोक्तो- नैतदेवम्, जीवाभावप्रसङ्गात्, कथं?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, आद्यप्रदेशतुल्यपरिणामत्वात्, प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो वा जीवः शेषप्रदेश- तद्धर्माचार्योतुल्यपरिणामत्वादन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना त्पत्तिनगराणि | (निह्नववादः) तस्यासम्पूर्णत्वमिति, आह च-गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो। तो तत्परिणामो च्चिय जीवो कहमंतिमपएसो?॥ 1 // (विशेषाव० 2337) इत्यादि, एवमुक्तोऽपि न प्रतिपन्नवान्, ततः सङ्घाहिष्कृतो, यश्चामलकल्पायां मित्रश्रीनाम्ना श्रमणोपासकेन संसड्यां भक्तादिग्रहणार्थं गृहमानीयाग्रतश्च विविधानि खाद्यकादिद्रव्याण्युपनिधाय तत एकैकमवयवं दत्त्वा पादेषु निपत्याहो धन्योऽहं मया साधवः प्रतिलम्भिता इत्यभिदधानेनाहो अहं भवता धर्षित इति वदन्भवत्सिद्धान्तेन भवान् प्रतिलम्भितो मया यदि परं वर्द्धमानस्वामिसिद्धान्तेन नेति प्रतिभणता प्रतिबोधितः, सोऽयं जीवप्रदेशिकानां धर्माचार्य इति / / तथा आषाढः- येन हि श्वेतव्यां नगर्यां पोलासे उद्याने स्वशिष्याणां प्रतिपन्नागाढयोगानां रात्रौ हृदयशूलेन मरणमासाद्य देवेन भूत्वा तदनुकम्पया स्वकीयमेव कडेवरमधिष्ठाय सर्वां सामाचारीमनुप्रवर्त्तयता योगसमाप्तिः शीघ्रं कृता, वन्दित्वा / तानभिहितं च- क्षमणीयं भदन्ताः! यन्मया यूयं वन्दनं कारिताः, यस्य च शिष्या इयच्चिरमसंयतो वन्दितोऽस्माभिरिति Oएकादयः प्रदेशा जीवो न न च प्रदेशहीनोऽपि। यत्तत्स येन पूर्णः स एव प्रदेशो जीव इति // Oगुरुणाऽभिहितः स यदि ते प्रथमप्रदेशो जीव इति न संमतस्तत्परिणाम एवान्त्यप्रदेशः कथं जीवः? // 1 // B