________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 728 // सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 587 निह्नवतद्धर्माचार्योत्पत्तिनगराणि (निह्नववादः) माणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्धिः प्ररूपयामास- यत् क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद् अश्रावणशब्दवत्, प्रत्यक्षविरुद्धता चास्यार्द्धसंस्तृतसंस्तारकासंस्तृतत्वदर्शनात्, ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, आह च-सक्खं चिय संथारो ण कज्जमाणो कडोत्ति मे जम्हा। बेइ जमाली सच्चं न कज्जमाणं कयं तम्हा॥१॥ (विशेषाव० 2308) इति, यश्चैवं प्ररूपयन् स्थविरैरेवमुक्तो- हे आचार्य! क्रियमाणं कृतमिति नाध्यक्षविरुद्धम्, यदि हि क्रियमाणं-क्रियाविष्टं कृतं नेष्यते ततः क्रियानारम्भसमय इव पश्चादपि क्रियाऽभावे कथं तदिष्यत इति सदा प्रसङ्गः, क्रियाऽभावस्याविशिष्टत्वाद्, यदप्युक्तं 'अर्द्धसंस्तृतसंस्तारकासंस्तृतत्वदर्शनात्' तदप्ययुक्तम्, यतो यद्यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्त्रास्तरणसमये खल्वसावास्तीर्ण एवेति, आह च-ज जत्थ नभोदेसे अत्थुव्वइ जत्थ जत्थ समयंमि। तं तत्थ तत्थमत्थुयमत्थुव्वंतपितं चेव॥१॥ (विशेषाव० 2321) इति, तदेवं विशिष्टसमयापेक्षीणि भगवद्वचनानीति, एवमपि प्रत्युक्तो योन तत् प्रतिपन्नवान्, सोऽयं बहुरतधर्माचार्यः१। तथा तिष्यगुप्तोवसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यो, यो हि राजगृहे विहरन्नात्मप्रवादाभिधानपूर्वस्य एंगे भंते! जीवप्पएसे जीवेत्ति वत्तव्वं सिया?, नो इणमढे समढे, एवं दो तिन्नि संखेज्जा असंखेज्जा वा जाव एक्केणावि पएसेण ऊणे नो जीवेत्ति वत्तव्वं सिआ, जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लप्पएसे जीवेति वत्तव्वं सिया इत्येवमादिकमालापकमधीयानः कर्मोदयादुत्थितः सन्नित्थमभिहितवान् Oमम संस्तारकः क्रियमाणः साक्षान्न कृत एवेति यस्माद्। जमालिब्रवीति तस्मात् क्रियमाणं कृतं न सत्यम्॥ 1 // 0 यत्र नभोदेशे यस्मिन् यस्मिन् समये यदास्तीर्यते तस्मिंस्तस्मिंस्तदास्तीर्णमास्तीर्यमानमपि तदेव // 1 // 0 एको भदन्त! जीवप्रदेशो जीव इति वक्तव्यः स्यात्?, नैषोऽर्थः समर्थः, एवं द्वौ त्रयः सङ्ख्येया असङ्ख्येया वा यावदेकेनापि प्रदेशेनोनो जीव इति नो वक्तव्यः स्यात्, यस्मात् कृत्स्नः प्रतिपूर्णो लोकाकाशप्रदेशतुल्यप्रदेशो जीव इति वक्तव्यः स्यात् / / // 728 //