________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ सप्तममध्ययन सप्तस्थानम्, सूत्रम् 587 | निलवतद्धर्माचार्योत्पत्तिनगराणि (निह्नववादः) // 727 // छलुए गोट्ठामाहिले, एतेसिंणं सत्तण्हं पवयणनिहगाणं सत्तुप्पत्तिनगरा होत्था, तं०-सावत्थी उसभपुर सेतविता मिहिलमुल्लगातीरं। पुरिमंतरंजि दसपुर णिण्हगउप्पत्तिनगराई॥१॥ सूत्रम् 587 // समणे त्यादि कण्ठ्यम्, नवरं प्रवचनं-आगमं निह्नवते- अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिह्रवाः प्रज्ञप्ता जिनैः, तत्र 'बहुरय'त्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु रता:- सक्ता बहुरता दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः / तथा जीवः प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रादेशिका अथवा जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयम्, तथा अव्यक्तं- अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना, तथा समुच्छेदः- प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो-विनाशः समुच्छेदं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थः / तथा द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः। तथा जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः,राशियख्यापका इत्यर्थः / तथास्पृष्टं जीवेन कर्मनस्कन्धबन्धवद्वद्धमबद्धं तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम्, धम्मायरिय त्ति धर्म:- उक्तप्ररूपणादिलक्षणः श्रुतधर्मस्तत्प्रधानाः प्रणायकत्वेनाचार्या धर्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्र जमाली क्षत्रियकुमारो, यो हि श्रमणस्य भगवतो महावीरस्य भागिनेयो भगवद्दुहितुः सुदर्शनाभिधानाया भर्ता पुरुषपञ्चशतीपरिवारो भगवत्प्रवाजित आचार्यत्वं प्राप्तः श्रावस्त्यां नगर्यां तेन्दुके चैत्ये विहरन्ननुचिताहारादुत्पन्नरोगो वेदनाभिभूततया शयनार्थं समादिष्टसंस्तारकसंस्तरणः कृतः संस्तारकः? इतिविहितपरिप्रश्नः संस्तारककारिसाधुना संस्त्रियमाणत्वेऽपि संस्तृत इतिदत्तप्रतिवचनोगत्वा च दृष्टक्रिय // 727 //