________________ सप्तमम श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 726 // ध्ययन सप्तस्थानम्, सूत्रम् 587 निलवतद्धर्माचार्योत्पत्तिनगराणि (निह्नववादः) संश्लिष्टान्शातयतीत्यर्थः, उक्तं च-पुव्वकयकम्मसाडणं तु निज्जराइति सच वेदनादिभेदेन सप्तधा भवतीत्याह- सप्त समुद्धाताः प्रज्ञप्ताः / तद्यथा-वेदनासमुद्धात इत्यादि, तत्र वेदनासमुद्धातोऽसद्वेद्यकश्रियः, कषायसमुद्धातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्धातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः केवलिसमुद्धातस्तुसदसद्वेधशुभाशुभनामोच्चनीचैर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्धातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्धातसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्धातसमुद्धत आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्धातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, यथोक्तं-वेउब्वियसमुग्घाएणं समोहन्नइ समोहणित्ता संखेज्जाई जोयणाइंदंडं निसरइ 2 ता अहाबायरे पुग्गले परिसाडेइत्ति, एवं तैजसाहारकसमुद्धातावपि व्याख्येयौ, केवलिसमुद्धातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिकः शेषास्त्वसङ्ख्यातसामयिका इति / चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्धाता मनुष्याणामेव भवन्तीत्याह-'मणुस्साणं सत्ते'त्यादि, ‘एवं चेव'त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति / एतच्चसमुद्धातादिकं जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह समणस्सणं भगवओमहावीरस्स तित्थंसि सत्त पवतणनिण्हगा पं० तं०- बहुरता जीवपतेसिता अवत्तिता सामुच्छेइता दोकिरिता तेरासिता अबद्धिता एएसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता हुत्था, तं०- जमालि तीसगुत्ते आसाढे आसमित्ते गंगे पूर्वकृतकर्मशाटनं तु निर्जरा // वैक्रियसमुद्धातेन समवहन्ति समवहत्य सङ्ग्येययोजनप्रमाणं दण्डं निसृजति निसृज्य प्रारबद्धान् यथास्थूलान् पुद्गलान् परिशाटयति॥ // 726 //