SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय वृत्तियुतम् भाग-२ // 725 // समुद्धाता: आयुक्तं गमनमायुक्तस्य- उपयुक्तस्य सँल्लीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थानं- ऊर्द्धस्थानं कायोत्सर्गादि निसीयणं तिल सप्तममध्ययनं निषदनं- उपवेशनं तुयट्टणं शयनं उल्लङ्घनं डेवनं देहल्यादेः, प्रलङ्घनं-अर्गलादेः सर्वेषामिन्द्रियाणां योगा- व्यापाराः सर्वे वा सप्तस्थानम्, सूत्रम् 586 ये इन्द्रिययोगास्तेषां योजनता- करणं सर्वेन्द्रिययोगयोजनता। अब्भासवत्तियं ति प्रत्यासत्तिवर्त्तित्वम्, श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, परच्छंदाणुवत्तिय न्ति पराभिप्रायानुवर्तित्वम्, कज्जहेउं ति कार्यहेतोः। अयमर्थ:कार्य-श्रुतप्रापणादिकं हेतुं कृत्वा, श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थो, विशेषेण विनये तस्य वर्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति, तथा 'कृतप्रतिकृतिता' कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकरणंसूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्य दुःखार्तस्य गवेषणमौषधादेरित्यार्त्तगवेषणं तदेवार्तगवेषणतेति, पीडितस्योपकार इत्यर्थोऽथवा आत्मना आप्तेन वा भूत्वा गवेषणं-सुस्थदुःस्थतयोरन्वेषणं कार्यमिति, देशकालज्ञता- अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता-आनुकूल्यमिति / विनयात्कर्मघातो भवति, स च समुद्धाते विशिष्टतर इति समुद्धातप्ररूपणायाह सत्तसमुग्धाता पं० तं०- वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाएवेउव्वियसमुग्धाते तेजससमुग्घाए आहारगसमुग्घाते केवलिसमुग्घाते, मणुस्साणं सत्त समुग्धाता पं० एवं चेव ॥सूत्रम् 586 // + सत्त समुग्घाए त्यादि, हन् हिंसागत्योः(पा०धा० 1062) हननं घातः समित्येकीभावे उत्-प्राबल्ये तत एकीभावेन प्राबल्येन च घातो-निर्जरा समुद्धातः, कस्य केन सहकीभावगमनं?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मा / वेदनाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन घातः कथं?, यस्माद्वेदनादिसमुद्धातपरिणतो बहून् / वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह // 725 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy