________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियतम भाग-२ सप्तममध्ययन सप्तस्थानम्, सूत्रम् 584-585 | // 724 // वचनविकल्पाः विनय प्रशस्त क्रिया-आस्तिकता, अत्र भावना-तीर्थकराणामनाशातनायांतीर्थकरप्रज्ञप्तधर्मस्यानाशातनायाम्, वर्तितव्यमित्येवं सर्वत्र द्रष्टव्यमिति, कायव्वा पुण भत्ती बहुमाणो तहय वन्नवाओ य। अरहतमाइयाणं केवलनाणावसाणाणं॥१॥ उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनयः, आह च- सामाइयादिचरणस्स सद्दहणया 1 तहेव कारणं। संफासणं 2 परूवण 3 मह पुरओ भव्वसत्ताणं ॥१॥इति, मनोवाक्कायविनयास्तु मनःप्रभृतीनां विनयाहेषु कुशलप्रवृत्त्यादिः, उक्तं च-मणवइकाइयविणओ आयरियाईण सव्वकालंपि। अकुसलाण निरोहो कुसलाणमुईरणं तहय॥१॥लोकानामुपचारो-व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः / मनोवाक्कायविनयान् प्रशस्ताप्रशस्तभेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनयं च सप्तधैवाह- पसत्थमणे त्यादि, सूत्रसप्तकं सुगमम्, नवरं प्रशस्त:- शुभो मनसो विनयनं विनयः प्रवर्त्तनमित्यर्थः प्रशस्तमनोविनयः, तत्र अपापक:- शुभचिन्तारूपोऽसावद्यश्चौर्यादिगर्हितकर्मानालम्बनः, अक्रियः- कायिक्याधिकरणिक्यादिक्रियावर्जितो निरुपक्लेशः- शोकादिबाधावर्जितः स्नु प्रश्रवण (पा०धा० 1038) इति वचनाद्, आस्नव:- आश्रवः कर्मोपादानं तत्करणशील आस्नवकरस्तनिषेधादनास्नवकर:-प्राणातिपाताद्याश्रववर्जित इत्यर्थः, अक्षयिकर:- प्राणिनां न क्षये- यथाविशेषस्य कारकः / अभूताभिशङ्कनो-न भूतान्यभिशङ्कन्ते-बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः, एतेषांच प्रायः सदृशार्थत्वेऽपिशब्दनयाभिप्रायेण भेदोऽवगन्तव्योऽन्यथा वेति, एवं शेषमपि / - क्रियावादिनां मत्यादिज्ञानानां च तथैव // 1 // 0 अर्हदादीनां केवलज्ञानावसानानां पञ्चदशानां भक्तिः कर्त्तव्या पुनर्बहुमानस्तथा च वर्णवादश्च / / 1 / / 0 सामायिकादिचारित्रस्य श्रद्धानं तथैव कायेन / स्पर्शना अथो भव्यानां पुरतः प्ररूपणा सत्त्वानाम् ।।१॥सर्वकालमपि आचार्याणां मनोवाक्कायिकविनयः / यदकुशलानां8 निरोधः कुशलानामुदीरणं च तथा // 1 // प्रशस्त यलोकोपचारविनयभेदाः // 72