________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 723 // सूत्रम् स एव विविधो विप्रलाप इति // एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा विनयार्था अपि स्युरिति विनयभेदप्रति- सप्तममध्ययनं पादनायाह- सत्तविहे त्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः प्रज्ञप्तस्तद्यथा- ज्ञानं- आभिनिबोधिकादि सप्तस्थानम्, पञ्चधा तदेव विनयो ज्ञानविनयो ज्ञानस्य वा विनयो- भक्त्यादिकरणं ज्ञानविनयः, उक्तंच-भत्ती 1 तह बहुमाणो 2 तद्दिद्वत्थाण | 584-585 संमभावणया 3 / विहिगहण 4 ब्भासोऽविय 5 एसो विणओ जिणाभिहिओ॥१॥दर्शनं- सम्यक्त्वं तदेव विनयो दर्शनविनयो वचन विकल्पाः, दर्शनस्य वा-तदव्यतिरेकाद्दर्शनगुणाधिकानांशुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः, उक्तंच-सुस्सूसणा अणासायणा | विनयय विणओ उ दंसणे दुविहो। दसणगुणाहिएK कज्जइ सुस्सूसणाविणओ॥१॥ सक्कार 1 ब्भुट्ठाणे 2 सम्माणा 3 सणअभिग्गहो तह या | प्रशस्ता प्रशस्त४। आसणमणुप्पयाणं 5 कीकम्म 6 अंजलिगहो य७॥२॥ इंतस्सऽणुगच्छणया 8 ठियस्स तह पज्जुवासणा भणिया 9 / गच्छंताणुव्वयणं मनोवाक्काय१० एसो सुस्सूसणाविणओ॥३॥इति, इह च सत्कारः-स्तवनवन्दनादिअभ्युत्थानं-विनयाहस्य दर्शनादेवासनत्यजनंसन्मानो-8 लोकोपचार विनयभेदाः वस्त्रपात्रादिपूजनम्, आसनाभिग्रहः पुनस्तिष्ठत आदरेण आसनानयनपूर्वकमुपविशतात्रेति भणनम्, आसनानुप्रदानं तुआसनस्य स्थानात्स्थानान्तरसञ्चारणं कृतिकर्म- द्वादशावर्त्तवन्दनकम्, शेषं प्रकटमिति / उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः, अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपः / अयं पञ्चदशविधः, आहच तित्थगर 1 धम्म 2 आयरिय 3 वायगे 4 थेर 5 कुल ६गणे 7 संघे 8 / संभोगिय 9 किरियाए 10 मइनाणाईण 15 य तहेव॥१॥ साम्भोगिका- एकसामाचारीकाः 0 भक्तिस्तथा बहुमानं तद्दष्टार्थानां सम्यग्भावना। विधिना ग्रहणमभ्यासोऽपि च एष विनयो जिनाख्यातः॥१॥ शुश्रूषणाऽनाशातना च विनयस्तु दर्शने // 723 // द्विविधः / दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः॥१॥ सत्कारोऽभ्युत्थानं सन्मान आसननिमन्त्रणा तथा च।आसनसंक्रामणं कृतिकर्म अञ्जलिग्रहश्च / / 2 / / आगच्छतोऽभिव्रजनं स्थितस्य तथा पर्युपासना भणिता। गच्छतोऽनुव्रजनमेष शुश्रूषणाविनयः // 30 तीर्थंकराचार्यधर्मवाचकस्थविरकुलगणसंघानां सांभोगिकानां -