SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 711 // मल्ली देशोनवर्षशतजाता अवधिना तानाभोगयाञ्चकार, तत्प्रतिबोधनार्थं च गृहोपवने षगर्भगृहोपेतं भवनं तन्मध्यभागे च कनकमयीं शुषिरांमस्तकच्छिद्रां पद्मपिधानांस्वप्रतिमांकारयामास, तस्यां चानुदिवसं स्वकीयभोजनकवलं प्रक्षेपयामास, इतश्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारिते नागयज्ञे जलजादिभास्वरपञ्चवर्णकुसुमनिर्मितं श्रीदामगण्डकं दृष्ट्रा अहोऽपूर्वभक्तिकमिदमिति विस्मयादमात्यमुवाच-दृष्ट क्वापीदमीदृशमिति?,सोऽवोचत्-मल्लिविदेहवरराजकन्यासत्कश्रीदामगण्डापेक्षयेदंलक्षांशेऽपिशोभयान वर्त्तते, ततोराज्ञाऽवाचि-सा पुनः कीदृशी?, मन्त्री जगाद-अन्या नास्ति तादृशी-8 त्युपश्रुत्य सजातानुरागोऽसौ मल्लिवरणार्थं दूतं विससर्ज१। तथा चम्पायांचन्द्रच्छायराजः कदाचिदर्हन्नकाभिधानेन श्रावकेण पोतवणिजा चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कुण्डलयुग्मे कौशलिकतयोपनीते सति पप्रच्छ, यदुत- यूयं बहुशः समुद्र लड्यथ,तत्र च किञ्चिदाश्चर्यमपश्यत?,सोऽवोचत्-स्वामिन्नस्यां यात्रायांसमुद्रमध्येऽस्माकं धर्मचालनार्थं देवः कश्चिदुपसर्ग चकार, अविचलने चास्माकं तुष्टेन तेन कुण्डलयुगलद्वितयमदायि, तदेकं कुम्भकस्य अस्माभिरुपनिन्ये, तेनापि मल्लिकन्यायाः कर्णयोः स्वकरेण विन्यासि, सा च कन्या त्रिभुवनाश्चर्यभूता दृष्टा, इति श्रुत्वा तथैव दूतं प्रेषयामास 2 / तथा श्रावस्त्यां रुक्मिराजः सुबाह्वभिधानायाः स्वदुहितुश्चातुर्मासिकमज्जनमहोत्सवे नगरीचतुष्पथनिवेशितमहामण्डपे विभूत्या मज्जितां तां तत्रैवोपविष्टस्य पितुः पादवन्दनार्थमागतामङ्के निवेश्य तल्लावण्यमवलोकयन् व्याजहार, यदुत भो वर्षधर दृष्ट ईदृशोऽन्यस्याः।। कस्याश्चिदपि कन्यायाः मज्जनकमहोत्सवः?, सोऽवोचद्-देव! विदेहवरराजकन्यासत्कमज्जनोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्तत इत्युपश्रुत्य तथैव दूतं प्रेषयति स्मेति ३।तथा अन्यदा मल्लिसत्कदिव्यकुण्डलयुग्मसन्धिर्विजघटे, (r) गृहोपेतं तन्म० (मु०)। सप्तमम मानस्थानमा सूत्रम् 563-564 ब्रह्मदत्ततनुमानायुर्गतयः, मल्लिदीक्षापरिवारनृपाः (मल्लिकथानकम)
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy