________________ सम्ममम ध्ययन श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सप्तस्थानम. // 710 // बंभदत्तेत्यादिसुगमम्॥ब्रह्मदत्त उत्तमपुरुष इति तदधिकारादुत्तमपुरुषविशेषस्थानोत्पन्नमल्लिवक्तव्यतामाह-मल्ली णमित्यादि, मल्लिरहन् अप्पसत्तमे त्ति आत्मना सप्तमः-सप्तानांपूरण: आत्मा वासप्तमो यस्यासावात्मसप्तमो, मल्लिशब्दस्य स्त्रीलिङ्गत्वेऽप्यईच्छब्दापेक्षया पुन्निर्देशः / विदेहजनपदराजस्य वरकन्या विदेहराजवरकन्या 1, तथा प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराजः साकेतनिवासी२,चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी ३,रुक्मी नाम कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः४, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी 5, अदीनशत्रुर्नाम्ना कुरुदेशनाथो हस्तिनागपुरवास्तव्यः 6, जितशत्रुर्नाम पञ्चालजनपदराजः काम्पिल्यनगरनायक इति 7, आत्मसप्तमत्वं च भगवतःप्रव्रज्यायामभिहितप्रधानपुरुषप्रव्रज्याग्रहणाभ्युपगमापेक्षयाऽवगन्तव्यम्, यतःप्रव्रजितेन तेन तेप्रवाजिताः, तथा त्रिभिः पुरुषशतैः बाह्यपरिषदा त्रिभिश्चस्त्रीशतैरभ्यन्तरपरिषदाऽसौ संपरिवृतः परिव्रजित इति ज्ञातेषु श्रूयत इति, उक्तंच-पासो मल्ली य तिहिं तिहिंसएहिं(आव०नि०२२४)ति, एवमन्येष्वपि विरोधाभासेषु विषयविभागाः सम्भवन्तीति निपुणैर्गवेषणीयाः,शेषंसुगममिति, इत्थं चैतच्चरितं मल्लिज्ञाताध्ययने श्रूयते- जम्बूद्वीपेडपरविदेहे सलिलावतीविजये वीतशोकायां राजधान्यां महाबलाभिधानोराजा षड्भिर्बालवयस्यैः सह प्रव्रज्यांप्रतिपेदे, तत्र महाबलस्तैर्वयस्यानगारेरूचे-यद्भवांस्तपस्तपस्यति तद्वयमपीत्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरन्तश्चतुर्थादि विदधुस्तदाऽसावष्टमादिव्यधासीद्, एवं चस्त्रीनामगोत्रकर्मासौ बबन्ध अर्हदादिवात्सल्यादिभिश्च हेतुभिस्तीर्थकरनामेति,ततस्ते जीवितक्षयाजयन्ताभिधानविमाने अनुत्तरसुरत्वेनोत्पेदिरे, ततश्च्युत्वा महाबलो विदेहेषु जनपदेषु मिथिलायांराजधान्यां कुम्भकराजस्य प्रभावत्या देव्यास्तीर्थकरीत्वेन समजनि, मल्लिरिति नाम च पितरौ चक्रतुः। तदन्ये तु यथोक्तेषु साकेतादिषु सञ्जज्ञिरे, ततो 0 पार्थो मल्ली च त्रिभिस्त्रिभिः शतैः / सूत्रम् 563-564 ब्रह्मदत्ततनुमानायुर्गतयः, मल्लिदीक्षापरिवारनृपाः (मल्लिकथानकम्) // 71