________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ सप्तममध्ययन सप्तस्थानम्, सूत्रम् 560-562 संसारजीवा:, अध्यवसानाधुपक्रमा:, सर्वजीवा: // 708 // // सूत्रम् 561 // ___ सत्तविधा सव्वजीवापं० तं०-पुढविकाइया आउ० तेउ० वाउ० वणस्सति० तसकातिता अकातिता, अहवा सत्तविहा सव्वजीवा पं० तं०- कण्हलेसा जाव सुक्कलेसा अलेसा // सूत्रम् 562 // सत्ते त्यादि कण्ठ्यम्, संसारिणां च संसरणं आयुधंदे सति भवतीति तदर्शयन्नाह- सत्तेत्यादि, तत्र आउयभेदे त्ति आयुषोजीवितव्यस्य भेदः- उपक्रमः आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति, अज्झवसाण गाहा, अध्यवसानंरागस्नेहभयात्मकोऽध्यवसायो निमित्तं-दण्डकशाशस्त्रादीनि समाहारद्वन्द्वस्तत्र सति आयुर्भिद्यत इति सम्बन्धः। तथा आहारेभोजनेऽधिके सति, तथा वेदना- नयनादिपीडा पराघातो गर्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव तत्र सति, तथा स्पर्शेतथाविधभुजङ्गादिसम्बन्धिनि सति, तथा आणापाणु त्ति उच्छासनिःश्वासौ निरुद्धावाश्रित्येति, एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अथवा अध्यवसानमायुरुपक्रमकारणमिति शेषः, एवं निमित्तमित्यादि, यावदाणापाणुत्ति व्याख्येयम्, प्रथमैकवचनान्तत्वादध्यवसानादिपदानाम्, एवं सप्तविधत्वादायुर्भेदहेतूनां सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अयं चायुर्भेदः सोपक्रमायुषामेव नेतरेषामिति, आह- यद्येवं भिद्यते आयुस्ततः कृतनाशोऽकृताभ्यागमश्च स्यात्, कथं?, संवत्सरशतमुपनिबद्धमायुस्तस्य अपान्तराल एव व्यपगमात्कृतनाशो येन च कर्मणा तद्भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासस्ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह च-कम्मोवक्कामिज्जइ अपत्तकालंपि जइ तओ पत्ता / अकयागमकयनासा माता मोक्खाणासासओ दोसा॥१॥(विशेषाव० 2047) अत्रोच्यते-यथा वर्षशतभोग्यभक्तमप्यग्निकव्याधितस्याल्पेनापिकालेनोप 0 अप्राप्तकाले यदि कर्म उपक्रम्यते ततः प्राप्ताः / अकृतागमकृतनाशान्मोक्षेऽनाश्वासतो दोषाः // 1 // // 708 //