________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 702 // सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 553 स्वरभेदाः, जीवाजीवनिश्रितत्वलक्षण-ग्राममूर्च्छना-योनिगेयादिस्वरमण्डलम् उपचारात् तद्रवो यस्मिंस्तत्समतालं तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा- मुरजकंशिकाद्यातोद्यानां यो ध्वनिस्तल्लक्षणो नृत्यत्पादक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति, तथा सत्तसरसीभरं ति सप्त स्वराः सीभर न्ति अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरम्, ते चामी-'अक्खरसम१पयसमंतालसमं३लयसमं 4 गहसमंच ५।नीससिऊससियसमंद सञ्चारसमं७ सरा सत्त ॥१॥'त्ति, इयं च गाथा स्वरप्रकरणोपान्ते तंतिसम मित्यादिरधीतापिइहाक्षरसममित्यादिव्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घ अक्षरे दीर्घःस्वरः क्रियते ह्रस्वे ह्रस्व: प्लुतेप्लुतःसानुनासिके सानुनासिक उससाना स्तदक्षरसमम्, तथा यद् गेयपदं- नामिकादिकमन्यतरबन्धेन बद्धं यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत्पदसममिति, यत्परस्पराहतहस्ततालस्वरानुवर्ति भवति तत्तालसमम्, शृङ्गदाद्यन्यतरमयेनाङ्गलिकोशकेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरतोगातुर्यनेयं तल्लयसमम्, प्रथमतोवंशतन्त्र्यादिभिर्यः स्वरोगृहीतस्तत्समंगीयमानं ग्रहसमम्, निःश्वसितोच्छ्रसितमानमनतिक्रामतो यनेयं तन्निःश्वसितोच्छ्रसितसमम्, तैरेव वंशतन्त्र्यादिभिर्यदङ्गलिसञ्चारसमं गीयते तत्सञ्चारसमम्, गेयं च सप्त स्वरास्तदात्मकमित्यर्थः / यो गेये सूत्रबन्धः स एवमष्टगुण एव कार्य इत्याह- निद्दोसं सिलोगो, तत्र निर्दोष- अलियमुवघायजणयं (आव०नि०८८१-८४, बृहत्क० 278-81) इत्यादिद्वात्रिंशत्सूत्रदोषरहितं १सारवद्-अर्थेन युक्तं 2 हेतुयुक्तं- अर्थगमककारणयुक्तं 3 अलङ्कतं-काव्यालङ्कारयुक्तं 4 उपनीतं- उपसंहारयुक्तं 5 सोपचारं- अनिष्ठुराविरुद्धालज्जनीयाभिधानं सोत्प्रासंवा 6 मितं पदपादाक्षरै परिमितमित्यर्थो 7 मधुरं त्रिधा शब्दार्थाभिधानतो 8 गेयं भवतीति शेषः / तिन्नि य वित्ताई ति यदुक्तं तद्व्याख्या- समं सिलोगो, तत्र समं पादैरक्षरैश्च, तत्र पादैश्चतुर्भिरक्षरैस्तु-गुरुलघुभिः। अर्द्धसमंत्वेकतरसमम्, विषमंतु सर्वत्र पादाक्षरापेक्षयेत्यर्थः। अन्ये तु व्याचक्षते-सम-यत्र चतुर्ध्वपि पादेषु समान्यक्षराणि,