________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ | // 701 // सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 553 स्वरभेदाः, जीवाजीवनिश्रितत्वलक्षण-ग्राममूर्च्छनायोनि-गेयादिस्वरमण्डलम् गीतमिति गम्यते, आरभमाणाः, इह समुदितत्रयापेक्षं बहुवचनमन्यथा एक एव आकारो द्वयमन्यद्वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तांगीतध्वनेरिति गम्यते, मध्यकारे-मध्यभागे, तथा अवसाने च क्षपयन्तो-गीतध्वनिं मन्द्रीकुर्वन्तस्त्रयो गीतस्याकारा भवन्ति, आदिमध्यावसानेषु गीतध्वनिर्मुदुतारमन्द्रस्वभावः क्रमेण भवतीति भावः, किं चान्यत्- छ दोसे दारगाहा, षट् दोषा वर्जनीयास्तानाह-भीयं गाहा, भीतं- त्रस्तमानसं 1 द्रुतं- त्वरितं 2 रहस्सं ति ह्रस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण उप्पिच्छंश्वासयुक्तं त्वरितं चेति उत्तालं- उत्प्राबल्यार्थे इत्यतितालमस्थानतालंवा, तालस्तु कंशिकादिशब्दविशेष इति 4, काकस्वरं श्लक्ष्णाश्रव्यस्वरम्, अनुनासंच-सानुनासिकं नासिकाकृतस्वरमित्यर्थः, किमित्याह-गायन् गानप्रवृत्तस्त्वं हे गायन! मा गासीः, किमिति?, यत एते गेयस्य षट् दोषा इति। अष्टौ गुणानाह- पुन्नं गाहा, पूर्ण स्वरकलाभिः 1 रक्तं गेयरागेणानुरक्तस्य 2 अलङ्कतमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् 3 व्यक्तमक्षरस्वरस्फुटकरणत्वात् 4 अविघुटुं विक्रोशनमिव यन्न विस्वरं५ मधुरं-मधुरस्वरं कोकिलारुतवत् ६समं-तालवंशस्वरादिसमनुगतं७ सुकुमारं-ललितंललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति 8, एभिरष्टाभिर्गुणैर्युक्तं गेयं भवति, अन्यथा विडम्बना। किञ्चान्यत्- उर गाहा, उरःकण्ठशिरःसु प्रशस्तं- विशुद्धम्, अयमों- यधुरसि स्वरो विशालस्तत उरोविशुद्धम्, कण्ठे यदि स्वरोवर्तितोऽस्फुटितश्च ततः कण्ठविशुद्धम्, शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धम्, अथवा उरःकण्ठशिरःसु श्लेष्मणा अव्याकुलेषु विशुद्धेषु- प्रशस्तेषु यत्तत्तथेति, चकारो गेयगुणान्तरसमुच्चये गीयते- उच्चार्यते गेयमिति सम्बध्यते, किंविशिष्टमित्याह?- मृदुकं मधुरस्वरं रिभितं यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव घोलनाबहुलमित्यर्थः, पदबद्धं गेयपदैर्निबद्धमिति, पदत्रयस्य कर्मधारयः, समतालपडुक्खेवं ति समशब्दः प्रत्येकं सम्बध्यते तेन समास्ताला- हस्तताला // 701