________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ | // 699 // न विरोहो? तओ गुरू आह। सत्तणुवाई सब्वे बायरगहणं च गेयं वा // 2 // इति / स्वरान्नामतोऽभिधाय कारणतस्तन्निरूपणायो सप्तममध्ययन पक्रमते- एएसि ण मित्यादि, तत्र नाभिसमुत्थः स्वरोऽविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति सप्तस्थानम्, सूत्रम् 553 तत्स्वरस्योपकारकमिति स्वरस्थानमुच्यते, सज्ज मित्यादिश्लोकद्वयम्, ब्रूयादिति सर्वत्र क्रिया, षड्जंतु प्रथमस्वरमेव अग्रभूता स्वरभेदाः, जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थस्तया, यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तरेषु व्याप्रियते जीवाजीव निश्रितत्वतथापि सा तत्र बहुतरव्यापारवतीतिकृत्वा तया तमेव ब्रूयादित्यभिहितम्, उरो- वक्षस्तेन ऋषभस्वरम्, कंठुग्गएणं तिल लक्षण-ग्रामकण्ठश्चासावुग्रकश्च- उत्कटः कण्ठोग्रकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतं- उद्गतिः स्वरोद्गमलक्षणा मूर्च्छना योनि-गेयादिक्रिया तेन कण्ठोद्गतेन गन्धारम्, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमम्, तथा दन्ताश्च ओष्ठौ च दन्तोष्ठं तेन धैवतं स्वरमण्डलम् रैवतं वेति / जीवनिस्सिय त्ति जीवाश्रिता जीवेभ्यो वा निःसृता- निर्गताः, सज्ज मित्यादिश्लोकः / नदति रौति गवेलग त्ति। गावश्च एलकाच- ऊरणका गवेलका अथवा गवेलका- ऊरणका एव इति, अह कुसुम इत्यादिरूपकं गाथाभिधानम्, विषमाक्षरपादं वा पादैरसमं दशधर्मवत् / तन्त्रेऽस्मिन् यदसिद्धं, गाथेति तत् पण्डितै यम् // 1 // इति वचनाद्, अथे ति विशेषार्थः, विशेषार्थता चैवं- यथा गवेलका अविशेषेण मध्यम स्वरं नदन्ति न तथा कोकिलाः पञ्चमम्, अपि तु कुसुमसम्भवे काल इति, कुसुमानांबाहुल्यतोवनस्पतिषु सम्भवो यस्मिन्स तथा तत्र, मधावित्यर्थः ।अजीवनिस्सिय त्ति तथैव नवरंजीवप्रयोगादेत इति / सज्ज मित्यादि श्लोकः / मृदङ्गो- मर्दलो गोमुखी- काहला यतस्तस्या मुखे गोशृङ्गमन्यद्वा क्रियत इति, चउ इत्यादिश्लोकाश्चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनद्धेति गोधिका- वाद्यविशेषो दईरिकेति यत्पर्यायः, न विरोधस्ततो गुरुराह। सर्वेऽपि सप्तानुपातिनः स्थूलग्रहणमाश्रित्य गेयं वा // 2 // // 22 //