________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 698 // समत्तं // सप्तममध्ययन सुगमंचेदम्, नवरंस्वरणानि स्वराः- शब्दविशेषाः, सज्जे त्यादिश्लोकाः,षड्भ्यो जातः षड्जः / उक्तं हि-नासां कण्ठमुरस्तालु, सप्तस्थानम्, सूत्रम् 553 जिह्वां दन्तांश्च संश्रितः। षड्भिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः॥१॥ तथा ऋषभो- वृषभस्तद्वयो वर्त्तते स ऋषभ इति, स्वरभेदाः, आह च- वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः। नईत्यूषभवद् यस्मात्, तस्मादृषभ उच्यते॥ तथा गन्धो विद्यते यत्र स जीवाजीव निश्रितत्वगन्धारः स एव गान्धारो, गन्धवाहविशेष इत्यर्थः, अभाणि हि- वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः। नानागन्धावहः लक्षण-ग्रामपुण्यो, गान्धारस्तेन हेतुना ॥१॥तथा मध्ये कायस्य भवो मध्यमः, यदवाचि- वायुः समुत्थितो नाभेरुरोहृदि समाहतः / नाभिं प्राप्तो मुर्छना योनि-गेयादिमहानादो, मध्यमत्वं समश्नुते॥१॥तथा पञ्चानांषड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमोऽथवा पञ्चसुनाभ्यादिस्थानेषु स्वरमण्डलम् मातीति पञ्चमः स्वरः / यदभ्यधायि- वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः। पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते॥१॥ तथा अभिसन्धयते- अनुसन्धयति शेषस्वरानिति निरुक्तिवशाधैवतः, यदुक्तं- अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् / तस्मादस्य स्वरस्यापि, धैवतत्वं विधीयते॥१॥पाठान्तरेण रेवतश्चैवेति, तथा निषीदन्ति स्वरा यस्मिन्स निषादः / यतोऽभिहितंनिषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना। सर्वांश्चाभिभवत्येष, यदादित्योऽस्य दैवतम् // 1 // इति, तदेवं स्वराः सप्त वियाहिय त्ति व्याख्याता, ननु कार्यं हि कारणायत्तं जिह्वा च स्वरस्य कारणं सा चासङ्ख्येयरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति, अथवा स्थूलस्वरान् गीतं चाश्रित्य सप्त उक्ता, आह च- कजं करणायत्तं जीहा य सरस्स ता असंखेज्जा / सरसंखमसंखेज्जा करणस्सासंखयत्ताओ॥१॥सत्त य सुत्तनिबद्धा कह। (r) कार्य कारणायत्तं स्वरस्य च जिह्वा ता असङ्ख्येयाः / स्वराः सङ्ख्येया असङ्ख्याताः कारणस्यासङ्ख्यत्वात् // 1 / / सप्त च सूत्रे निबद्धाः कथं -