________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ / / 695 // सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 552 नैगमाद्या नयाः , (नयस्वरूपम्) मेवेति, आह च-तं चिय रिउसुत्तमयं पच्चुप्पन्नं विसेसियतरं सो। इच्छइ भावघडं चिय जं न उ नामादओ तिन्नि॥१॥ (विशेषाव 2228) 5, तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढः, उक्तं च-जं जं सन्नं भासइ तं तं चिय समभिरोहए जम्हा। सन्नंतरत्थविमुहो तओ क(न)ओ समभिरूढोत्ति // 1 // (विशेषाव० 2236) अयं हि मन्यते- घटकुटादयः शब्दा भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचराः, घटपटादिशब्दवत्, तथा च घटनात् घटो विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट कौटिल्ये कुटनात् कुटः, कौटिल्ययोग्यात् कुट इति, घटोऽन्यः कुटोऽप्यन्य एवेति 6, तथा यथाशब्दार्थ एवं पदार्थो भूतः सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः, आह च-एवं जहसद्दत्थो संतो भूओ तयऽन्नहाऽभूओ। तेणेवंभूयनओ सद्दत्थपरो विसेसेणं // 1 // (विशेषाव० 2251) इति, अयं हि योषिन्मस्तकव्यवस्थितं चेष्टावन्तमेवार्थं घटशब्दवाच्यं मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोकाः- शुद्धं द्रव्यं समाश्रित्य, सङ्घहस्तदशुद्धितः। नैगमव्यवहारौ स्तः, शेषाः। पर्यायमाश्रिताः॥१॥ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् / विशेषोऽप्यन्य एवेति, मन्यते नैगमो नयः॥ 2 // सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् / सत्तारूपतया सर्वं, सङ्गह्नन् सङ्ग्रहो मतः॥३॥व्यवहारस्तु तामेव, प्रतिवस्तु व्यवस्थिताम् / तथैव दृश्यमानत्वाद्, व्यवहारयति देहिनः॥४॥ तत्रर्जुसूत्रनीतिः स्यात्, शुद्धपर्यायसंस्थिता / नश्वरस्यैव भावस्य, भावात् स्थितिवियोगतः॥५॥ अतीता-1 नागताकारकालसंस्पर्शवर्जितम् / वर्तमानतया सर्वमजुसूत्रेण सूत्र्यते // 6 // विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् / तस्यैवल मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते॥७॥ तथाविधस्य तस्यापि, वस्तुनः क्षणवृत्तितः। ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम्॥८॥ 0तदेव ऋजुसूत्रमतं प्रत्युत्पन्नं विशेषिततरं सः / इच्छति भावघटमेव (मनुते) नैव नामादींस्त्रीन् यत्॥१॥0यां यां संज्ञा भाषते तां तां समभिरोहत्येव यस्मात्। संज्ञान्तरार्थविमुखस्ततो नयः समभिरूढ इति // 1 // 0 एवं यथाशब्दार्थस्तथा भूतः सन्नन्यथाऽभूतस्तत:(असन्) / तेनैवंभूतनयो विशेषेण शब्दार्थपरः॥ 1 // 8