________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 694 // सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 552 नैगमाद्या नया:, (नयस्वरूपम) पञ्चवर्णेऽपि भ्रमरादिवस्तुनि बहुतरत्वात् कृष्णत्वमेव मन्यते, आह च-बहुतरओत्तिय तं चिय गमेइ संतेवि सेसए मुयइ। संववहारपरतया ववहारो लोगमिच्छतो॥१॥ (विशेषाव० 2221) इति 3, तथा ऋजु-वक्रविपर्ययादभिमुखं श्रुतं-ज्ञानं यस्यासौ / ऋजुश्रुतः, ऋजु वा-वर्तमानमतीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः, उक्तं च- उज्जु रिउं सुयं नाणमुज्जु सुयमस्स सोऽयमुजुसुओ। सुत्तयइ वा जमुज्जुंवत्थु तेणुज्जुसुत्तोति // 1 // (विशेषाव० 2222) अयं हि वर्तमानं निजकं लिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते,शेषमवस्त्विति, तथाहि-अतीतमेष्यद्वान भावो, विनष्टानुत्पन्नत्वाददृश्यत्वात्खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात् खकुसुमवत्, तस्माद्वर्त्तमानं स्वं वस्तु, तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति वचनभिन्नमापोजलं नामादिभिन्नं नामस्थापनाद्रव्यभावभिन्नम्, आह च- तम्हा निजगं संपयकालीयं लिंगवयणभिन्नपि / नामादिभेयविहियं पडिवजइ वत्थुमुज्जुसुय॥१॥ (विशेषाव० 2226) त्ति 4, तथा शपनं शपति वा असौशप्यते वा तेन वस्त्विति शब्दस्तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, यथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादक पदं हेतुरेवोच्यत इति, आह च-सवणं सवइ स तेणं व सप्पए वत्थु जंतओ सद्दो। तस्सऽत्थपरिग्गहओ नओवि सद्दोत्ति हेतुव्व॥१॥ (विशेषाव० 2227) इति, अयंच नामस्थापनाद्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात् खपुष्पवद्, नच भिन्नलिङ्गवचनमेकम्, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटा वृक्ष इत्यादिवद्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेक संव्यवहारपरतया लोकमिच्छन् व्यवहारो बहुतरत्वादेव तं गमयति सतोऽपि शेषकान्मुञ्चत्येव ॥१॥ॐ ऋजु- अवक्रं श्रुतं- ज्ञानम्, ऋजु श्रुतमस्य सोऽयमृजुश्रुतः / सूत्रयति वा यजु वस्तु तेन ऋजुसूत्र इति // 1 // 0 तस्मानिजकं साम्प्रतकालीनं लिङ्गवचनभिन्नमपि / नामादिभेदवदपि प्रतिपद्यते ऋजुसूत्रो वस्तु // 1 // 0 शपनं शपति स तेन वा शप्यते वस्तु यत्ततः शब्दः। तस्यार्थपरिग्रहाद् नयोऽपि शब्द इति हेतुरिव हेत्वर्थप्रतिपादकः // 1 // // 694 //