________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 693 // सप्तममध्ययन सप्तस्थानम्, सूत्रम् 552 नैगमाद्या नया:, (नयस्वरूपम्) सविसयपहाणत्तणेण अन्नोन्ननिरवेक्खा // 1 // (विशेषाव० 2194-95) इति, तथा सङ्ग्रहणं भेदानां सङ्गह्नाति वा भेदान्। वा भेदा येन स सङ्ग्रहः / उक्तञ्च- संगहणं संगिण्हइ संगिझंते व तेण जं भेया। तो संगहोत्ति एतदुक्तं भवति- सामान्यप्रतिपादनपरः खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषम्, तथा च मन्यते-विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनान्तरभूता वा?, यद्यर्थान्तरभूतान सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवद्, अथानान्तरभूताः सामान्यमानं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, आह च-सदिति भणियंमि जम्हा सव्वत्थाणुप्पवत्तए बुद्धी। तो सव्वं तम्मत्तं नत्थि तदत्थंतरं किंचि॥१॥ कुंभो। भावाऽणन्नो जइ तो भावो अहऽन्नहाऽभावो। एवं पडादओऽविहु भावाऽनन्नत्ति तम्मत्तं // 2 // (विशेषाव० 2207-8) इति, तथा व्यवहरणं व्यवहरतीति वा व्यवह्रियते वा- अपलप्यते सामान्यमनेन विशेषान् वाऽऽश्रित्य व्यवहारपरो व्यवहारः। आह चववहरणं ववहरए स तेण ववहीरए व सामन्नं / ववहारपरो य जओ विसेसओ तेण ववहारो॥१॥ (विशेषाव० 2212) इति, अयं हि विशेषप्रतिपादनपरः सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वाद्, न तदतिरिक्तं सामान्यम्, तस्य व्यवहारापेतत्वात्, तथाच-सामान्यं विशेषेभ्यो भिन्नमभिन्नंवा स्यात्?, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, नचोपलभ्यते, अथाभिन्नं विशेषमात्रंतत्तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति, आह च-उवलंभव्ववहाराभावाओ त(नि)व्विसेसभावाओ। तं नत्थि खपुप्फंपिव संति विसेसा सपञ्चक्खं॥१॥ (विशेषाव० 2214) इति, तथा लोकसंव्यवहारपरो व्यवहारः। तथाहि- असौ 0संग्रहणं संगृह्णाति संगृह्यन्ते वा तेन यस्माद्भेदास्ततः सङ्ग्रहः।। 0 सदिति भणिते यस्मात्सर्वत्रानुप्रवर्त्तते बुद्धिः / ततः सर्वं तन्मात्रं नास्ति तदर्थान्तरं किंचित् // 1 // कुम्भो भावादनन्यो यदि ततो भावोऽथान्यथाऽभावः / एवं पटादयोऽपि भावादनन्या इति तन्मात्रं (सर्व)॥२॥ व्यवहरणं व्यवहरति व्यपहरति (व्यवहियते) वा 8 सामान्यम् / व्यवहारपरो यतश्च विशेषतस्तेन व्यवहारः॥१॥0 उपलम्भव्यवहाराभावात्तद्वि(निर्वि)शेषभावात्। तन्नास्ति खपुष्पमिव विशेषाः सन्ति स्वप्रत्यक्षम् // 1 // 8 // 69