SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-२ // 690 // व्युत्पत्तिः / तथा विजातीयात्- तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयम्, आदीयत इत्यादानं-धनं तदर्थं / सप्तममध्ययन चौरादिभ्यो यद्भयंतदादानभयम्, अकस्मादेव- बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयम्, वेदना- सप्तस्थानम्, पीडा तद्भयं वेदनाभयम्, मरणभयं प्रतीतम्, अश्लोकभयं- अकीर्त्तिभयम्, एवं हि क्रियमाणे महदयशो भवतीति तद्भयान्न सूत्रम् 551 सप्रभेदप्रवर्तत इति / भयंच छद्मस्थस्यैव भवति, सच यैः स्थानैआयते तान्याह-सत्तहिं ठाणेही त्यादि, सप्तभिः स्थानैर्हेतुभूतैश्छद्मस्थं मूलगोत्र भेदाः जानीयात्, तद्यथा- प्राणानतिपातयिता, तेषां कदाचिद् व्यापादनशीलो भवति, इह च प्राणातिपातनमिति वक्तव्येऽपि काश्यपाद्याः धर्मधर्मिणोरभेदादतिपातयितेति धर्मी निर्दिष्टः, प्राणातिपातनाच्छद्मस्थोऽयमित्यवसीयते, केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवतीत्येवं सर्वत्र भावना ज्ञेया, तथा मृषा वदिता भवति, अदत्तमादाता- गृहीता भवति, शब्दादीनास्वादयिता भवति, पूजासत्कारं- पुष्पार्चनवस्त्राद्यर्चने अनुबंहयितापरेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे हर्षकारीत्यर्थः। तथेदमाधाकर्मादिसावधं-सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति, तथा सामान्यतो नो यथावादी तथाकारी अन्यथाभिधायान्यथा कर्ता भवति चापी ति समुच्चये / एतान्येव / विपर्यस्तानि केवलिगमकानि भवन्तीत्येतत्प्रतिपादनपरं केवलिसूत्रम्, सुगममेव / केवलिनश्च प्रायो गोत्रविशेषवन्त एव / भवन्ति प्रव्रज्यायोग्यत्वान्नाभेयादिवदिति 'सत्त मूलगोत्ते'त्यादिना ग्रन्थेन गोत्रविभागमाह सत्त मूलगोत्तापं०२०- कासवा गोतमा वच्छा कोच्छा कोसिता मंडवा वासिट्ठा, जे कासवा ते सत्तविधा पं० तं०- ते कासवा ते संडेल्ला ते गोल्ला ते वाला ते मुंजतिणो ते पव्वपेच्छतिणोते वरिसकण्हा, जे गोयमा ते सत्तविधा पं० तं०- ते गोयमा ते गग्गा ते भारद्दा ते अंगिरसा ते सक्कराभा ते भक्खराभा ते उदगत्ताभा, जे वच्छा ते सत्तविधा पं० तं०- ते वच्छा ते अग्गेया ते मित्तिया ते सामिलिणो // 690 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy