________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 681 // गृहीत्वा, पुढेगत्तं ति पृथक्कालदेशभेदेन कदाचित्क्वचिदित्यर्थः, एकत्वं एकरूपत्वं नानात्वं नानारूपत्वं विकृत्य उत्तरवैक्रियतया सप्तममध्ययन चितॄत्तए त्ति स्थातुं-आसितुं प्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह फुसित्ता तानेव पुद्गलान्स्पष्ट्वा तथाऽऽत्मना सप्तस्थानम्, सूत्रम् 542 स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा तथा स्फुटित्वा प्रकाशीभूय, पुद्गलान् वा स्फोटयित्वा, वाचनान्तरे तु पदद्वय- एकदिग्लोकामपरमुपलभ्यते, तत्र संवर्त्य-सारानेकीकृत्य निवर्त्य- असारान् पृथक्कृत्येति, अथवा पर्याप्तपुद्गलैरुत्तरवैक्रियशरीरस्यैकत्वं भिगमादीनि विभङ्गज्ञानानि नानात्वं च कर्मतापन्नं स्पृष्ठा- प्रारभ्य तथा स्फुरत्कृत्वा- स्फुटं कृत्वा सं- एकीभावेन वर्तितं- सामान्यनिष्पन्नं कृत्वाल निर्वर्तितं कृत्वा-सर्वथा परिसमाप्य, किमुक्तं भवति?- विकुळ-वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भवति- इति विकल्पो जायते, मुदग्गे ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति 4, अथापरंपञ्चमम्, तत्र बाह्याभ्यन्तरान् पुद्गलान्- अपर्यादायेत्यत्र निषेधस्य वैक्रियसमुद्धातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूत्पत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गल्याद्यवयवापेक्षया वा विकुळस्थातुं प्रवृत्तानित्यादि, शेषं प्राग्वद्, बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किलन भवत इति भवधारणीयमिहाधिकृतं, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति-अमुदग्गे त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरोजीव इति ५,रूवी जीवे त्ति पुद्गलानांपर्यादानेऽपर्यादानेच वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनाद्रूपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति 6, सुहुमे त्यादि सूक्ष्मेणमन्देन न तु सूक्ष्मनामकर्मोदयवर्त्तिना, तस्य वस्तुचलनासमर्थत्वात्, फुडं ति स्पृष्टं पुद्गलकायं पुद्गलराशिं एयंत ति एजमानं कम्पमानं व्येजमानं विशेषेण कम्पमानं चलन्तं स्वस्थानादन्यत्र गच्छन्तं क्षुभ्यन्तं अधो निमज्जन्तं स्पन्दन्तं ईषच्चलन्तं घट्यन्तं