________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ / / 680 // रचितावयवशरीरोजीव इत्यवसायवत्पञ्चमं५, तथा रूवी जीवेत्ति देवानां वैक्रियशरीरवतां दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् सप्तममध्ययनं षष्ठमिति 6, तथा सव्वमिणं जीवत्ति वायुना चलतः पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं सप्तस्थानम्, निश्चयवत्सप्तममिति सङ्ग्रहवचनमेतत् / तत्थे त्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव नवरं तत्थ'त्ति तेषु सप्तसुमध्ये जया सूत्रम् 542 एकदिग्लोकाणं ति यस्मिन् काले से णं ति इह तदेति गम्यते स विभङ्गी पासइ त्ति उपलक्षणत्वाज्जानातीति च, अन्यथा ज्ञानत्वं विभङ्गस्य भिगमादीनि न स्यादिति, पाईणं वे त्यादि, वा विकल्पार्थः, उड्ढे जाव सोहम्मो कप्पो इत्यनेन सौधर्मात् परतः किल प्रायो बालतपस्विनोन विभङ्गज्ञानानि पश्यन्तीति दर्शितम्, तथाऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितम्, दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति, एवं भवइ ति एवंविधो विकल्पो भवति, यदुत- अस्ति मे अतिशेषशेषाण्यतिक्रान्तं सातिशयमित्यर्थो ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं ज्ञानदर्शनम्, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह- एकदिशि लोकाभिगम इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, सन्ति विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते चैवमाहुरन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वाद्, ये ते एवमाहुः, यदुत- पञ्चस्वपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथमं विभङ्गज्ञानमिति 1 / अथापरं द्वितीयम्, तत्र पाईणं वे त्यादौ, वाशब्दश्चकारार्थो द्रष्टव्यो विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथा च प्रथमद्वितीययोर्विभङ्गयोर्भेदो न स्यादिति, क्वचिद्वाशब्दा न दृश्यन्त एवेति 2, प्राणानतिपातयमानानित्यादिषु जीवानिति 8 // 680 // गम्यते, नो किरियावरणे त्ति अपितु कर्मावरण इति 3, देवामेव त्ति देवानेव भवनवास्यादीनेव बाहिरभंतरे त्ति बाह्यान् / शरीरावगाहक्षेत्रादभ्यन्तरान्- अवगाहक्षेत्रस्थान् पुद्गलान्-वैक्रियवर्गणारूपान् पर्यादाय परि-समन्ताद्वैक्रियसमुद्घातेनादाय