SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 541 गणापक्रमणकारणादीनि, सर्वधर्मरोचनादीनि // 676 // रोचयामि- चिकीर्षामि एककांश्च श्रुतधाश्चारित्रधर्मान् वा नो रोचयामि- न चिकीर्षामीत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्यभावादपक्रमामि भदन्त इति द्वितीयं 2, तथा सर्वधर्मान्-उक्तलक्षणान् विचिकित्सामि-संशयविषयीकरोमीत्यतः संशयापनोदार्थं स्वगणादपक्रमामीति तृतीयं 3, एवमेककान् विचिकित्सामि एककान् नो विचिकित्सामीति चतुर्थं 4, तथा जुहुणामि त्ति जुहोमि- अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रमामीति पञ्चमं 5, एवं षष्ठमपि 6, तथा इच्छामिणं भदन्त!-धर्माचार्य एकाकिनो गच्छनिर्गतत्वाजिनकल्पिकादितया यो विहारो-विचरणं तस्य या प्रतिमाप्रतिपत्ति:- प्रतिज्ञा सा एकाकिविहारप्रतिमा तामुपसम्पद्य- अङ्गीकृत्य विहर्तुमिति सप्तममिति 7 / अथवा सर्वधर्मानोचयामि-श्रद्दधे अहमिति तेषां स्थिरीकरणार्थमपक्रामामि, तथा एककान् रोचयामि श्रद्दधे एककांश्च नो रोचयामीत्यश्रद्धितानां श्रद्धानार्थमपक्रामामीत्यनेन पदद्वयेन सर्वविषयाय देशविषयाय च सम्यग्दर्शनाय गणापक्रमणमुक्तं 1 / एवं सर्वदेशविषयसंशयविनोदसूचकेन सव्वधम्मा विचिकिच्छामी त्यादिपदद्वयेन ज्ञानार्थमपक्रमणमुक्तमिति, तथा सर्वधर्मान् जुहोमी ति जुहोतेरदनार्थत्वाद्भक्षणार्थस्य चासेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीतियावत् तथा एककानासेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनासेवितानां च क्षपणवैयावृत्त्यादीनां चारित्रधर्माणामासेवार्थमपक्रामामीत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं चनाणट्ठ दंसणट्ठा चरणट्ठा एवमाइ संकमणं / संभोगट्ठा व पुणो आयरियट्ठा व णायव्वं॥१॥(निशीथभा० 5458) इति, तत्र ज्ञानार्थंसुत्तस्स व अत्थस्स व उभयस्सव कारणा उसंकमणं। वीसज्जियस्स गमणं भीओ य नियत्तए कोइ॥१॥(निशीथभा० 5459) इति, - 0 ज्ञानार्थं दर्शनार्थं चरणार्थमित्याद्यर्थं संक्रमणम्। संभोगार्थं च पुनराचायार्थं च ज्ञातव्यम् // 1 // 0 सूत्रस्य वार्थस्य वोभयस्य वा कारणात् संक्रमणम् / विसर्जितस्य गमनं भीतो वा निवर्त्तते कोऽपि॥१॥
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy