________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 675 // गणापक्रमण // अथ सप्तममध्ययनं सप्तस्थानाख्यम्॥ सप्तममध्ययन सप्तस्थानम्, व्याख्यातं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने षट्सङ्खयोपेताः पदार्थाः सूत्रम् 541 प्ररूपिताः, इह तु त एव सप्तसङ्ख्योपेताः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रं___ सत्तविहे गणावक्कमणे पं० तं०-सव्वधम्मा रोतेमि 1 एगतिता रोएमि एगइया णोरोएमि र सव्वधम्मा वितिगिच्छामि 3 एगतिया कारणादीनि, सर्वधर्मवितिगिच्छामि एगतिया नो वितिगिच्छामि 4 सव्वधम्मा जुहुणामि 5 एगतिया जुहुणामि एगतिया णो जुहुणामी 6 इच्छामिणं भंते! रोचनादीनि एगल्लविहारपडिमं उवसंपज्जित्ता णं विहरित्तते 7 // सूत्रम् 541 // सत्तविहे त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धोऽनन्तरसूत्रे पुद्गलाः पर्यायत उक्ताः, इह तु पुद्गलविशेषाणामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिस्तु तत्क्रमः प्रतीत एव, नवरंसप्तविधं-सप्तप्रकारं प्रयोजनभेदेन भेदाद्गणाद्-गच्छादपक्रमणं-निर्गमो गणापक्रमणं प्रज्ञप्ततीर्थकरादिभिः। तद्यथा-सर्वान् धर्मान् निर्जराहेतून् श्रुतभेदान्-सूत्रार्थोभयविषयानपूर्वग्रहणविस्मृतसन्धानपूर्वाधीतपरावर्त्तनरूपान् चारित्रभेदांश्च-क्षपणवैयावृत्त्यरूपान् रोचयामिरुचिविषयीकरोमि चिकीर्षामि, ते चामुत्र परगणेसम्पद्यन्ते नेह स्वगणे, बहुश्रुतादिसामग्र्यभावाद्, अतस्तदर्थं स्वगणादपक्रामामि भदन्त! इत्येवं गुरुपृच्छाद्वारेणैकं गणापक्रमणमुक्तं 1, अथ 'सर्वधर्मान् / रोचयामी'त्युक्ते कथं पृच्छार्थोऽवगम्यते इति?, उच्यते, इच्छामिणं भंते! एकल्लविहारपडिम मित्यादिपृच्छावचनसाधादिति, रुचेस्तु करणेच्छार्थता पत्तियामि रोएमी'त्यत्र व्याख्यातैवेति, क्वचित्तु 'सव्वधम्मं जाणामि, एवंपि एगे अवक्कमें' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपक्रामति 1, तथा एगइय त्ति एककान् कांश्चन श्रुतधर्मांश्चारित्रधर्मान् वा // 675 //