SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-२ // 670 // षष्ठमध्ययनं षट्स्थानम्, सूत्रम् 536-537 जातीनां निधत्ताधा| यूंषि, औदयिकादिभावाः (संक्षेप्या उदयनिष्पन्नस्तु कर्मोदयजनितो जीवस्य मानुषत्वादिः पर्यायस्तत्र च उदयेन निर्वृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविधः - उपशम उपशमनिष्पन्नश्च, तत्रोपशमो मोहनीयकर्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य(वा)मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयत, उदयाभाव इत्यर्थः, उपशम एवौपशमिक, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, तत्र च व्युत्पत्तिरुपशमेन निवृत्त औपशमिक इति, तथा क्षायिको द्विविध:-क्षयः क्षयनिष्पन्नश्च, तत्र क्षयोऽष्टानां कर्मप्रकृतीनां ज्ञानावरणादिभेदानाम्, क्षयः काभाव एवेत्यर्थः, तत्र क्षय एव क्षायिकः, क्षयनिष्पन्नस्तु तत्फलरूपो विचित्र आत्मपरिणामः केवलज्ञानदर्शनचारित्रादिः, तत्र क्षयेण निर्वृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविधः-क्षयोपशमः क्षयोपशमनिष्पन्नश्च, तत्र क्षयोपशमश्चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयाअन्तरायाणाम्, क्षयोपशम इह उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह-औपशमिकोऽप्येवंभूत एव, नैवम्, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति, अयं च क्षयोपशम: क्रियारूप एवेति, क्षयोपशम एव क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलब्धिपरिणाम आत्मन एव, क्षयोपशमेन निर्वृत्तः क्षायोपशमिक इति च व्युत्पत्तिरिति, तथा परिणमनं परिणामोऽपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमित्यर्थ, उक्तंच-परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः // 1 // स एव पारिणामिक इत्युच्यते, सच साद्यनादिभेदेन द्विविधः, तत्र सादिः जीर्णघृतादीनाम्, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनाम्, तद्भावस्य तेषामनादित्वादिति, तथा सन्निपातो-मेलकस्तेन निर्वृत्तः सान्निपातिकः, अयं चैषांपञ्चानामौदयिकादि संक्षेप्यायु बन्ध:, भावषट्कस्वरूपभेदाः) // 670 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy