SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 666 // षष्ठमध्ययन षट्स्थानम्, सूत्रम् 533-535 भोजनविषयोः परिणामाः, संशयादिप्रश्माः , चमरचन्द्र अन्नोऽणन्नो व होज जइ अन्नो। सो नत्थि खपुप्फंपिव णन्नो सामन्नमेव तयं // 1 // (विशेषाव० 34) ति अनुयोगी ति अनुयोगोव्याख्यानं प्ररूपणेतियावत् स यत्रास्ति तदर्थं यः क्रियत इति भावो, यथा- चउहिं समएहिं लोगो इत्यादिप्ररूपणाय कइहिं समएही'त्यादि ग्रन्थकार एव प्रश्नयति, अनुलोमे अनुलोमनार्थ- अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, तहनाणे त्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानो, जानत्प्रश्न इत्यर्थः, सच गौतमादेर्यथा 'केवइकालेणं भंते! चमरचञ्चारायहाणी विरहिया उववाएण'मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽ-0 जानत्प्रश्न इत्यर्थः, क्वचित् छविहे अढेइति पाठस्तत्र संशयादिभिरर्थो विशेषणीय इति / इहानन्तरसूत्रेऽतथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयति- चमरचंचे त्यादि, चमरस्य दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा- चञ्चाख्या नगरी चमरचञ्चा, या हि जम्बूद्वीपमन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसङ्खयेयान् द्वीपसमुद्रान् व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् स्थानवेदिकान्तादरुणोदं समुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य चमरस्यासुरराजस्य तिगिच्छिकूटो नामा य उत्पातपर्वतोऽस्ति माघवती सिद्धिसप्तदशैकविंशत्युत्तराणि योजनशतान्युच्चस्तस्य दक्षिणेन षड्योजनकोटीशतानि साधिकान्यरुणोदे समुद्रे तिर्यग्व्यतिव्रज्याधो विरहा: रत्नप्रभायाः पृथिव्याश्चत्वारिंशतं योजनसहस्राण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च, सा चमरचचा राजधानी उत्कृष्टेन षण्मासान् विरहिता- वियुक्ता उपपातेन, इहोत्पद्यमानदेवानां षण्मासान्यावद्विरहो भवतीति भावः / विरहाधिकारादिदं सूत्रत्रयं-एगे त्यादि, एकैकमिन्द्रस्थानं-चमरादिसम्बन्ध्याश्रयो भवननगरविमानरूपस्तदुत्कर्षेण षण्मासान्यावद्विरहितमुपपातेनेन्द्रापेक्षयेति / अधःसप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भवतीति तद्व्यवच्छेदार्थमधोग्रहणमतस्तमस्तमेत्यर्थः, सा ऽन्योऽनन्यो वा भवेद्? यद्यन्यः स नास्ति खपुष्पमिव अनन्यः सामान्यमेव सः॥ 1 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy