________________ षष्ठमध्या श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 662 // षट्स्थानम्, सूत्रम् 528-532 कल्पप्रस्तारा: संयमपरिमन्थूनि, कल्पस्थितयः, अयं च त्रिविधोऽपि संयमस्य पृथिव्यादिसंरक्षणादेः कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति 1, मोहरिए त्ति मुखंअतिभाषणातिशयनवदस्तीति मुखरः स एव मौखरिको बहुभाषी, अथवा मुखेनारिमावहतीति निपातनाद् मौखरिक, उक्तं च-मुखरिस्स गोन्ननामं आवहइ मुहेण भासंतो॥ (बृहत्क० 6327) इति, स च सत्यवचनस्य मृषावादविरतेः परिमन्थुर्माखर्ये सति मृषावादसम्भवादिति 2, चक्खुलोल त्ति चक्षुषा लोलश्चञ्चलश्चक्षुर्वा लोलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति यस इत्यर्थः, इदं च धर्मकथनादीनामुपलक्षणम्, आह च-आलोयंतो वच्चइ थूभाईणि कहेइ वा धम्मं / परियट्टणाणुपेहण ण पेह पंथं / अणुवउत्तो॥१॥ (बृहत्क० 6330) इति इरियावहिए त्ति ईर्या- गमनं तस्याः पन्था- मार्ग ईर्यापथस्तत्र भवा या समितिरीर्यासमितिलक्षणा साईर्यापथिकी तस्याः परिमन्थुरिति, आह च- छक्कायाण विराहण संजम आयाएँ कंटगाईया / आवडणभाणभेओल 8वीरदीक्षाखद्धे उड्डाह परिहाणी॥१॥ (बृहत्क० 6331) इति, 3, तितिणिए ति तितिणिकोऽलाभे सति खेदाद् यत्किञ्चनाभिधायी, स मोक्षतपः, च खेदप्रधानत्वादेषणा- उद्गमादिदोषविमुक्तभक्तपानादिगवेषणग्रहणलक्षणा तत्प्रधानो यो गोचरो- गोरिव मध्यस्थतया माहेन्द्रविमानभिक्षार्थं चरणं स एषणागोचरस्तस्य परिमन्थुः, सखेदो हि अनेषणीयमपि गृह्णातीति भावः 4, इच्छालोभिए त्ति इच्छा | शरीरमानम् अभिलाषः सचासौलोभश्च इच्छालोभो, महालोभ इत्यर्थः,शुक्लशुक्लोऽतिशुक्लोयथा,स यस्यास्तिस इच्छालोभिकोमहेच्छोऽधिकोपधिरित्यर्थः, उक्तं च- इच्छालोभो उ उवहिमइरेग (बृहत्क० ६३३२)त्ति स मुक्तिमार्गस्येति मुक्तिनिष्परिग्रहत्वम8 रुतानि अनार्यदेशभाषाः॥१॥0मौखर्यस्य गौणं नामावहति (अरिं) मुखेन भाषमाणः (यत्तत्)। स्तूपादीनालोकयन् व्रजति धर्म वा कथयति / परिवर्तनानुप्रेक्षेत्र वाऽनुपयुक्तः पन्थानं न प्रेक्षते // 1 // 0 संयमे षट्कायानां विराधनाऽऽत्मनि च कण्टकादयः। आपतनं भाजनभेदः प्राचुर्ये उड्डाहः परिहाणिश्च // 1 // 0 अतिरेकोपधिरिच्छालोभिकः / सनत्कुमार // 662 //