________________ श्रीअभय वृत्तियुतम् भाग-२ // 652 // 29+1= सर्वेऽपि 62, तद्यथा- अरजा इत्यादि सुगममेवेति / अनन्तरं विमानवक्तव्यतोक्तेति तत्प्रस्तावान्नक्षत्रविमानवक्तव्यता सूत्रत्रयेणाह-'चंदस्से'त्यादि व्यक्तम्, नवरं पुव्वंभाग त्ति पूर्वमिति- पूर्वभागेनाग्रेणेत्यर्थो भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्तेयुज्यन्ते इतियावदिति पूर्वभागानि, अनुस्वारश्चप्राकृतत्वादिति, चन्द्रस्याग्रयोगीनि,चन्द्र एतान्यप्राप्तो भुङ्क्ते इति लोकश्रीप्रोक्ता भावनेति, उक्तं च तत्रैव-पुव्वा तिन्नि य मूलो मह कित्तिय अणिमा जोगा इति, समं स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रंआकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाहू-'त्रिंशन्मुहूर्तानि' त्रिंशतं मुहूर्ताश्चन्द्रभोगो येषां तानि तथा, णत्तंभाग त्ति नक्तंभागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च अद्दाऽसेसा साई सयभिसमभिई य जेट्ठ समजोगा केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्ध-समक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा, अर्द्धक्षेत्रत्वमेवाहपञ्चदशमुहूर्तानी ति, उभयंभाग त्ति चन्द्रेणोभयतः- उभयभागाभ्यांपूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते-भुज्यन्तेयानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च- उत्तरतिन्नि विसाहा पुणव्वसू रोहिणी उभयजोगा। इति, द्वितीयमपार्द्धं यत्र तद् द्वयपार्द्ध सार्द्धमित्यर्थः, क्षेत्रं येषां तानि तथा, यतः पञ्चचत्वारिंशन्मुहूर्तानीति, अन्यानि दश पश्चिमयोगानि, पूर्वभागादिनक्षत्राणां गुणोऽयं-उक्तक्रमेण नक्षत्रैर्युज्यमानस्तु चन्द्रमाः।सुभिक्षकृतिपरीतं युज्यमानोऽन्यथा भवेत् ॥१॥इति / अनन्तरं चन्द्रव्यतिकर उक्त इति किञ्चिच्छब्दसाम्यात्तद्वर्णसाम्यावा अभिचन्द्रकुलकरसूत्रम्, तद्वंशजन्मसम्बन्धाद्भरतसूत्रं पार्श्वनाथसूत्रंच, जिनसाधाद्वासुपूज्यसूत्रं चन्द्रप्रभसूत्रं चाह 0 त्रीणि च पूर्वाणि मूलं मघा कृत्तिका एतान्यग्रिमयोगानि। 0 आर्द्राऽश्लेषा स्वातिः शतभिषक् अभिजिद् ज्येष्ठा समयोगानि। त्रीण्युत्तराणि विशाखा पुनर्वसू रोहिणी उभययोगानि॥ षष्ठमध्ययन षट्स्थानम्, सूत्रम् 516-517 ब्रह्मलोकविमानप्रस्तटाः, पूर्वभागादि नक्षत्राणि | (पूर्वाभाद्र| पदादेर्मुहूर्ताः 30, शतभिषगादेः 15, रोहिण्यादेः // 652 //