________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ षष्ठमध्ययन षट्स्थानम्, सूत्रम् |511-512 बाह्याभ्यन्तरतपसी, विवादा: // 647 // संपायणमेस भावत्थो॥१॥ इति, तच्च दशधा-आयरिय उवज्झाए थेरतवस्सीगिलाणसेहाणं। साहमियकुलगणसंघसंगयं तमिह कायव्वं॥१॥इति 3, सुष्टु आ- मर्यादया अध्यायोऽध्ययनं स्वाध्यायः, सच पञ्चधा- वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा चेति 4, ध्यातिद्धानम् एकाग्रचिन्तानिरोधस्तच्चतुर्द्धा प्राग् व्याख्यातम्, तत्र धर्मशुक्ले एव तपसी निर्जरार्थत्वाद् नेतरे बन्धहेतुत्वादिति 5, व्युत्सर्गः- परित्यागः, स च द्विधा- द्रव्यतो भावतश्च, तत्र द्रव्यतो गणशरीरोपध्याहारविषयो, भावतस्तु क्रोधादिविषय इति 6 / एते च तपःसूत्रे दशकालिकाद्विशेषतोऽवसेये इति / अनन्तरोदितार्थेषु विवदते कश्चिदिति। विवादस्वरूपमाह-'छव्विहे'त्यादि, षड्विधः-षड्भेदो विप्रतिपन्नयोः क्वचिदर्थे वादो-जल्पो विवादः प्रज्ञप्तस्तद्यथा-ओसक्कइत्त त्ति अवष्वष्क्य- अपसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, क्वचिच्च ओसक्कावइत्त त्ति पाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसl- अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, ओसक्कइत्त त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय उस्सक्कावइत्त त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, तथा अणुलोमइत्त त्ति विवादाध्यक्षान्सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा पूर्वं तत्पक्षाभ्युपगमेनानुलोमं कृत्वा पडिलोमइत्ता प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्थिनं वा, सर्वथा सामर्थ्य सतीति, तथा भइत्त त्ति अध्यक्षान् भक्त्वा-संसेव्य, तथा भेलइत्त त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भावः क्वचित्तु भेयइत्त त्ति पाठः तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षग्राहिणो वेति भावः / विवादंच कृत्वा ततोऽप्रतिक्रान्ताः केचित् क्षुद्रसत्त्वेषूत्पद्यन्त इति तान्निरूपयन्नाह संपादनमेष भावार्थः / / 1 / / 0 आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणाम्। साधर्मिककुलगणसङ्घानां संगतं तदिह कर्त्तव्यम् // 1 // // 647 //