________________ षष्ठमध्ययनं षट्स्थानम्, सूत्रम् 511-512 बाह्याभ्यन्तरतपसी, विवादाः // 646 // श्रीस्थानाङ्ग प्रायो बहिःशरीरस्य तापकत्वाद्वा तपति- दुनोति शरीरकर्माणि यत्तत्तप इति, तत्रानशनं-अभोजनमाहारत्याग इत्यर्थः, तद् श्रीअभय० द्विधा- इत्वरं यावत्कथिकं च, तत्रेत्वरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्येति, यावत्कथिकं त्वाजन्मभावि त्रिधावृत्तियुतम् भाग-२ पादपोपगमनेङ्गितमरणभक्तपरिज्ञाभेदादिति, एतच्च प्राग्व्याख्यातमिति 1, ओमोयरिय'त्ति अवमं- ऊनमुदरं- जठरम्, अवमोदरं तस्य करणमवमोदरिकेति, सा च द्रव्यत उपकरणभक्तपानविषया प्रतीता, भावतस्तु क्रोधादित्याग इति 2, तथा भिक्षार्थं चर्या-चरणमटनं भिक्षाचर्या सैव तपो निर्जराङ्गत्वादनशनवद् अथवा सामान्योपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसङ्केपरूपा सा ग्राह्या, यत इहैव वक्ष्यति- छव्विहा गोयरचरिय त्ति, न चेयं ततोऽत्यन्तभिन्नेति, भिक्षाचर्यायां चाभिग्रहा द्रव्यादिविषयतया चतुर्विधास्तत्र द्रव्यतोऽलेपकार्याद्येव द्रव्यं ग्रहीष्ये, क्षेत्रतः परग्रामगृहपञ्चकादिलब्धम्, कालतः | पूर्वाह्लादौ, भावतो गानादिप्रवृत्ताल्लब्धमिति 3, रसाः-क्षीरादयस्तत्परित्यागोरसपरित्यागः 4, कायक्लेशः-शरीरक्लेशनं सच वीरासनादिरनेकधा 5, प्रतिसंलीनता- गुप्तता, सा चेन्द्रियकषाययोगविषया विविक्तशयनासनता वेति ६।अभिंतरए त्ति लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तंउक्तनिर्वचनमालोचनादिदशविधमिति 1, विनीयते कर्म येन स विनयः, उक्तंच-जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमोक्खाए। तम्हा उ वयंति विऊ विणयंति विलीणसंसारा॥१॥ (आव०नि० 1231) इति,सच ज्ञानादिभेदात् सप्तधा वक्ष्यते 2, तथा व्या वृतभावो वैयावृत्त्यं धर्मसाधनार्थमन्नादिदानमित्यर्थ, आह च- वेयावच्चं वावडभावो इह धम्मसाहणणिमित्तं / अण्णाझ्याण विहिणा P O यस्मात् विनयति कर्म अष्टविधं चातुरन्तमोक्षाय। तस्मात्तु वदन्ति विद्वांसो विनय इति विलीनसंसाराः- केवलिनः // 1 // 0 वैयावृत्त्यं व्यापृतभाव इह धर्मसाधननिमित्तम् / अन्नादिकानां विधिना ||646 //