SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ षष्ठमध्ययनं श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 644 // षट्स्थानम्, सूत्रम् 510 अवग्रहहापायधारणाभेदाः (बह्वाद्याः) तत्तोऽवाओ य तव्विसेसस्स / इय सामन्नविसेसावेक्खा जावंतिमो भेओ॥३॥सव्वत्थेहावाया निच्छयओ मोत्तुमाइ सामन्नं। संववहारत्थं पुण सव्वत्थावग्गहोवाओ॥४॥तरतमजोगाभावेऽवाउब्विय धारणा तदंतमि।सव्वत्थ वासणा पुण भणिया कालंतरसइत्ति॥५॥ (विशेषाव० 282-86) तत्र व्यवहारावग्रहमतिमाश्रित्य प्रायः षड्डिधत्वं व्याख्येयमिति, तद्यथा- क्षिप्रमवगृह्णाति- तूल्यादिस्पर्श क्षयोपशमपटुत्वादचिरेणैव वेत्ति मतिस्तद्विशिष्टः पुरुषो वेति, बहु ति शय्यायां ह्युपविशन्पुमांस्तत्रस्थयोषित्पुष्पचन्दनवस्त्रादिस्पर्श बहु-भिन्नजातीयं सन्तमेकैकं भेदेनावबुध्यते अयं योषित्स्पर्श इत्यादि, बहुविहं ति बढ्यो विधा-भेदा यस्य स बहुविधस्तम्, योषिदादिस्पर्शमेकैकं शीतस्निग्धमृदुकठिनादिरूपमवगृह्णातीति, धुवं ति ध्रुवमत्यन्तं सर्वदेत्यर्थः, यदा यदा अस्य तेन स्पर्शेन योषिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवति- सतीन्द्रिये सति चोपयोगे यदाऽसौ विषयः स्पृष्टो भवति तदा तमवगृह्णात्येवेति, अणिस्सियं ति निश्रितो- लिङ्गप्रमितोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्तं शीतमृदुस्निग्धादिरूपः प्राक् स्पर्शोऽनुभूतस्तेनानुमानेन-लिङ्गेन तं विषयमपरिच्छिन्दद् यदा ज्ञानं प्रवर्त्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, असंदिद्धं ति असंदिग्धं- निश्चितं सकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृह्णन् योषित एवायं चन्दनस्यैवायमित्येवमवगृह्णातीति / एवमीहापायधारणामतीनां षडिधत्वम्, नवरं धारणायां क्षिप्रध्रुवपदे परित्यज्य पुराणदुर्द्धरपदाभ्यां सह षड्डिधत्वमुक्तम्, तत्र च पुराणं-बहुकालीनं दुर्द्धर-गहनं चित्रादीति, क्षिप्रबहुबहुविधादिपदषट्कविपर्ययेणापि षड़िधा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेदशभिर्गुणनात् त्रीणि - ततोऽपायस्तद्विशेषस्य / एवं सामान्यविशेषापेक्षया (ज्ञेयं) यावदन्तिमो भेदः॥ 3 // आदिसामान्यं मुक्त्वा निश्चयतः सर्वत्रेहापायौ। संव्यवहारार्थं पुनरपायः सर्वत्रावग्रहः / / 4 / / तरतमयोगाभावेऽपाय एव तदन्ते च धारणा। सर्वत्र पुनः कालान्तरस्मृतिर्वासनेति भणिता॥ 5 // // 644 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy