________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 637 // गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगमः- पुद्गलास्तिकायाद्यधिगमः, सोऽपि तथैवेति, एव मिति यथा छहिं दिसाहिं। षष्ठमध्ययन षट्स्थानम्, जीवाणं गई पवत्तई त्यादिसूत्राण्युक्तानि एवं चतुर्विंशतिदण्डकचिन्तायां पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई त्यादीन्यपि सूत्रम् वाच्यानि, तथा मनुष्यसूत्राण्यपि, शेषेषु नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवः, तथाहि-नारकादीनां 499-500 प्राच्यादिद्वाविंशतेर्जीवविशेषाणां नारकदेवेषूत्पादाभावादूर्वाधोदिशोर्विवक्षया गत्यागत्योरभावस्तथा दर्शनज्ञानजीवाजीवाभिगमा दिशाषट्केन गुणप्रत्ययावधिलक्षणप्रत्यक्षरूपान सन्त्येव तेषाम्, भवप्रत्ययावधिपक्षेतुनारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा जीवऊर्ध्वावधयो वैमानिकास्त्वधोऽवधयः शेषा निरवधय एवेति भावना, विवक्षाप्रधानानि च प्रायोऽन्यत्रापि सूत्राणी'ति / तिर्यमनुष्याणां गत्यागत्याअनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनुष्यप्रत्यासत्या संयतमनुष्याणामाहारग्रहणाग्रहणकारणानि सूत्रद्वयेनाह दीनि 14, छही त्यादि कण्ठ्यं नवरमाहारं-अशनादिकमाहारयन्-अभ्यवहरन्नातिक्रामत्याज्ञाम्, पुष्टकारणत्वाद्, अन्यथा त्वतिक्रामत्येव, आहारानाहार कारणानि रागादिभावात्, तद्यथा- वेयण गाहा, वेदना च क्षुद्वेदना वैयावृत्त्यं च- आचार्यादिकृत्यकरणं वेदनावैयावृत्त्यं तत्र विषये भुञ्जीत, वेदनोपशमनार्थं वैयावृत्त्यकरणार्थं चेति भावः, ईर्या-गमनं तस्या विशुद्धियुगमात्रनिहितदृष्टित्वमीर्याविशुद्धिस्तस्यै इदमीर्याविशुद्ध्यर्थम्, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम्, बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, चः समुच्चये, संयमः- प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थम्, तथे ति कारणान्तरसमुच्चये, प्राणा- उच्छ्रासादयो बलं वा प्राणस्तेषांक तस्य वा वृत्तिः- पालनं तदर्थं प्राणसंधारणार्थमित्यर्थः, षष्ठं पुनः कारणं धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थः / इत्येतानि ®संभवन्त्येव (मु०)। गुणप्रत्यय एव ग्राह्यो वाच्याश्च पञ्चेन्द्रियतिर्यङ्गरा न च ग्राह्यो भवप्रत्ययो न वाच्याश्च देवनारका इत्यत्र को नियम इत्याह विवक्षेत्यादि। // 637 //