SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 625 // पुरुषप्रकारः, इह च षड्भिः स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्मधर्मवतोरभेदाद्, अन्यथा श्राद्धत्वं सत्यत्वमित्यादिवक्तव्यं स्यादिति 1, तथा सत्यं सद्भ्यो-जीवेभ्यो हिततया प्रतिज्ञातशूरतयावा, एवंभूतो हि पुरुषोगणपालक आदेयश्च स्यादिति 2, तथा मेधावि मर्यादया धावतीत्येवंशीलमिति निरुक्तिवशाद्, एवंभूतो हि गणस्य मर्यादाप्रवर्तको भवति, अथवा मेधा-श्रुतग्रहणशक्तिस्तद्वद्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति 3 तथा बहु-प्रभूतं श्रुतं- सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्याद्, उक्तं च-सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं / अहियाहियसंपत्तिं संसारुच्छेयणं परमं?॥१॥ तथा कह सो जयउ अगीओ कह वा कुणउ अगीयनिस्साए। कह वा करेउ गच्छं सबालवुड्डाउलं सो उ॥ 2 // इति 4, तथा शक्तिमत् शरीरमन्त्रतन्त्रपरिवारादिसामर्थ्ययुक्तम्, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति 5, तथा अप्पाहिगरण न्ति अल्पं- अविद्यमानमधिकरणं- स्वपक्षपरपक्षविषयो विग्रहो यस्य तत्तथा, तद्ध्यनुवर्तकतया गणस्याहानिकारकं भवतीति 6, ग्रन्थान्तरे त्वेवं गणिनः स्वरूपमुक्त-सुत्तत्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो। जाईकुलसंपन्नो गंभीरो लद्धिमंतो य॥१॥ संगहुवग्णहनिरओ कयकरणो पवयणाणुरागी य। एवंविहो उ भणिओ गणसामी जिणवरिदेहि // 2 // (पञ्चवस्तु 1315-16) इति / अनन्तरं गणधरगुणा उक्ताः, गणधरकृतमर्यादया च वर्तमानो निर्ग्रन्थो नाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह- तत्र प्रथमं पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते-गृह्णन्। 0 कथं शिष्याणां परमां संसारोच्छेदिनी ज्ञानादीनामधिकाधिक संपत्तिं तथाविधः स करिष्यति? // 1 // 0 कथं सोऽगीतार्थो यततां कथं वाऽगीतार्थनिश्रया करोतु / सबालवृद्धाकुलं गच्छं च स कथं करोतु (प्रवर्त्तयतु)?॥१॥ 0 सूत्रार्थे निष्णातः प्रियदृढधर्मोऽनुवर्तनाकुशलः। जातिकुलसंपन्नो गम्भीरो लब्धिमांश्च / / // संग्रहोपग्रहनिरतः कृतकरणः प्रवचनानुरागी च। एवंविध एव भणितो गणस्वामी जिनवरेन्द्रः / / 2 // षष्ठमध्ययन षट्स्थानम्, सूत्रम् 475-477 गणधारणगुणाः, निग्रंथीग्रहणकारणानि, कालगतसाधर्मिकसमाचाराः // 625 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy