SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 624 // ॥अथ षष्ठमध्ययनं षष्ठस्थानाख्यम्। व्याख्यातंपञ्चममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव षट्स्थानकाख्यं षष्ठमारभ्यते, अस्य चायं विशेषसम्बन्धः- इहानन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रं छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारित्तते, तं०- सड्डी पुरिसज्जाते 1 सच्चे पुरिसजाते 2 मेहावी पुरिसजाते 3 बहुस्सुते पुरिसजाते 4 सत्तिमं५ अप्पाधिकरणे ६॥सूत्रम् 475 // छहिं ठाणेहिं निगंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ, तं०- खित्तचित्तं दित्तचित्तं जक्खातिटुं उम्मातपत्तं उवसग्गपत्तं साहिकरणं / सूत्रम् 476 // ___ छहिं ठाणेहिं निग्गंथा निग्गंथीओ य साहम्मितं कालगतं समायरमाणा णाइक्कमंति, तं०- अंतोहिंतो वा बाहिं णीणेमाणा 1 बाहीहितोवा निब्बाहिणीणेमाणा 2 उवेहमाणा वा 3 उवासमाणा वा 4 अणुन्नवेमाणा वा 5 तुसिणीते वासंपव्वयमाणा ६॥सूत्रम् 477 // छहिं ठाणेहीत्यादि, अस्य चायमभिसम्बन्धः, पूर्वसूत्रे ‘पञ्चगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ता' इत्युक्तम् / प्रज्ञापकाश्चैषामर्थतोऽर्हन्तः सूत्रतोगणधरा, गणधराश्च यैर्गुणैर्युक्तस्यानगारस्य गणधरणार्हत्वं भवति तद्युक्ता एवेति तेषां गुणानामुपदर्शनायेद-2 मुक्तमित्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रतीत एवेति, नवरं षड्भिः स्थानैर्गुणविशेषैः सम्पन्नो युक्तोऽनगारोभिक्षुः, अर्हति योग्यो भवति गणं गच्छं धारयितुं मर्यादायामिति गम्यते, पालयितुं वेत्यर्थः, सद्धि त्ति श्रद्धावान्, अश्रद्धावतो हि स्वयममर्यादावर्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधारणानहत्वम्, एवं सर्वत्र भावना कार्या, पुरुषजातं षष्ठमध्ययन षट्स्थानम्, सूत्रम् 475-477 गणधारणगुणाः, निग्रंथीग्रहणकारणानि, कालगतसाधर्मिकसमाचाराः // 624 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy