________________ भाग-२ // 621 // श्रीस्थानाङ्ग प्रयोजनं तस्मै सङ्ग्रहार्थाय सङ्ग्रह एव वाऽर्थो यस्य स सङ्ग्रहार्थस्तद्धावस्तत्ता तया सङ्ग्रहार्थतया श्रुतसङ्घहो भवत्वेषामिति श्रीअभय० प्रयोजनेनेति भावः / अथवैत मया एवं सङ्ग्रहीता भवन्ति-शिष्यीकृता भवन्तीति सङ्ग्रहार्थतया, तत्सनहायेति भाव एवमुपवृत्तियुतम् ग्रहार्थायोपग्रहार्थतया वा, एवं होते भक्तपानवस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावो, निर्जरार्थाय-निर्जरणमेवं मेकर्मणां भवत्विति, श्रुतं वा-ग्रन्थो मे मम वाचयत इति गम्यते पर्यवजातं जातविशेषं स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयनं- श्रुतस्य कालान्तरप्रापणमव्यवच्छित्तिनयः स एवार्थस्तस्मै इति / ज्ञानं- तत्त्वानां परिच्छेदो दर्शनं- तेषामेव श्रद्धानं चारित्रं- सदनुष्ठानं व्युग्रहो- मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचनं व्युगृहविमोचनं तदर्थाय तदर्थतया वा, अहत्थे त्ति यथास्थान्- यथावस्थितान् यथार्थान् वा- यथाप्रयोजनान् भावान्- जीवादीन् यथार्थान् वा- यथाद्रव्यान् भावान्पर्यायान् ज्ञास्यामीतिकृत्वा- इतिहेतोः शिक्षत इति / यथावस्थिताश्च भावा ऊर्द्धलोके सौधर्मादय इति तद्विषयं सूत्रत्रयम्, तथाऽधोलोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशतिसूत्री तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पं० तं०- किण्हा जाव सुकिल्ला 1, सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचजोयणसयाई उद्धं उच्चत्तेणं पन्नत्ता 2, बंभलोगलंततेसुणं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं पंचरयणी उद्धं उच्चत्तेणं पं०३ / नेरइयाणं पंचवन्ने पंचरसे पोग्गले बंधेसुवा बंधंति वा बंधिस्संति वा तं०- किण्हा जाव सुकिल्ले, तित्तेजाव मधुरे, एवं जाव O०वैत एव मया सङ्घ० (मु०) ॐ अधोलोकेऽपि ज्योतिष्कवैमानिकयोः स्वयं गमनं भवत्येव, विमानानि मा भूवन्, पुद्गलोपचित्यादि तु तेषामेव निर्विमानानामपि, इति नादृतोऽधोलोकादौ लोके इति क्वचिद्विद्यमानोऽपि पाठः / पद्यममध्ययन पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 469-474 सौधर्मेशानविमानवोचत्वम्, ब्रह्मलान्तकतनचत्वम. पंचवर्णादिपुदलबन्धाः , गङ्गा-सिन्धुरक्ता-रक्तवतीसमागतनद्य:२०, कुमार-तीर्थकरा:, चमरचयाराजधानीसभाः , इन्द्रस्थानसभाक्ष, धनिष्ठादितारकाः, पक्षस्थाननिर्वर्तितचयनादि, पक्षप्रदेशिकादिपुद्गलाः // 621 //