SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 620 // सूत्रवाचन शिक्षण कारणानि प्रतीपंक्रमणं प्रतिक्रमणम्, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव गमनमिति, उक्तं च- स्वस्थानाद्य पञ्चममध्ययन पशस्थानम्, त्परस्थानं, प्रमादस्य वशागतः / तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते॥१॥क्षायोपशमिकादावादौदयिकस्य वशं गतः। तत्रापि च स तृतीयोद्देशक: एवार्थः, प्रतिकूलगमात् स्मृतः॥ 2 // इति, इदं च विषयभेदात् पञ्चधेति, तत्र आश्रवद्वाराणि- प्राणातिपातादीनि तेभ्यः / | सूत्रम् 468 प्रतिक्रमणं-निवर्त्तनं पुनरकरणमित्यर्थ आश्रवद्वारप्रतिक्रमणम्, असंयमप्रतिक्रमणमिति हृदयम्, मिथ्यात्वप्रतिक्रमणं यदाभोगानाभोगसहसाकारैर्मिथ्यात्वगमनम्, तन्निवृत्तिः, एवं कषायप्रतिक्रमणम्, योगप्रतिक्रमणन्तु यन्मनोवचनकायव्यापाराणामशोभनानां व्यावर्त्तनमिति, आश्रवद्वारादिप्रतिक्रमणमेवाविवक्षितविशेष भावप्रतिक्रमणमिति, आह च-मिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणाइ। जं मणवइकाएहिं तं भणियं भावपडिकमणं॥१॥ इति, विशेषविवक्षायां तूक्ता एव चत्वारो | भेदाः, यदाह-मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं। कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं॥१॥ (आव०नि० 1264) इति / भावप्रतिक्रमणं च श्रुतभावितमतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्योपदर्शनार्थ सूत्रे___ पंचहिं ठाणेहिं सुत्तं वाएजा, तं०- संगहट्ठयाते उवग्गहणट्ठयाते णिज्जरणट्ठयाते सुत्ते वा मे पज्जवयाते भविस्सति सुत्तस्स वा अवोच्छित्तिणयट्ठयाते / पंचहिं ठाणेहिं सुत्तं सिक्खिज्जा, तं०- णाणट्ठयाते दंसणट्ठयाते चरित्तट्ठयाते वुग्गहविमोतणट्ठयाते अहत्थे वा भावे जाणिस्सामीतिकट्ठ॥सूत्रम् 468 // पंचही त्यादि सुगमे, नवरं सुत्तं- श्रुतं सूत्रमानं वा वाचयेत् पाठयेत्, तत्र सङ्ग्रहः- शिष्याणां श्रुतोपादानं स एवार्थः 0 मिथ्यात्वादि न गच्छति न च गमयति नानुजानाति / यन्मनोवाक्कायैस्तद्भणितं भावप्रतिक्रमणम् // 1 // 0 मिथ्यात्वात्प्रतिक्रमणं तथैव चासंयमात्प्रतिक्रमणम्। कषायेभ्यः प्रतिक्रमणं योगेभ्योऽप्रशस्तेभ्यश्च // 1 // // 620 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy