________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 618 // पञ्चममध्ययन पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 465-467 स्वाध्यायाः, प्रत्याख्यानशुद्धयः, आश्रवादि| प्रतिक्रमणानि केवलज्ञानोपन्यासस्तस्य सकलज्ञानोत्तमत्वात् तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभाद्, यो हि सर्वज्ञानानिसमासादयति सखल्वन्त एवेदमाप्नोति, तथा विपर्ययाभावसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति, उक्तं च-अंते केवलमुत्तमजइसामित्तावसाणलाभाओ। एत्थं च मतिसुयाइं परोक्खमियरं च पच्चक्खं॥१॥ (विशेषाव० 88) इति, उक्तस्वरूपस्य ज्ञानस्य यदावारकं कर्म तत्स्वरूपाभिधानाय सूत्रं- पंचे त्यादि, सुगमम्, उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाह पंचविहे सज्झाए पं० सं०- वायणा पुच्छणा परियट्टणा अणुप्पेहा धम्मकहा। सूत्रम् 465 // पंचविहे पच्चक्खाणे पं० तं०- सद्दहणसुद्धे विणयसुद्धे अणुभासणासुद्धे अणुपालणासुद्धे भावसुद्धे // सूत्रम् 466 // पंचविहे पडिक्कमणे पं० तं०- आसवदारपडिक्कमणे मिच्छत्तपडिक्कमणे कसायपडिक्कमणे जोगपडिक्कमणे भावपडिक्कमणे॥ सूत्रम् 467 // पंचविहे इत्यादि सुगमम्, नवरं शोभनं आ- मर्यादया अध्ययनं- श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्तना, सूत्रस्य गुणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः, एवमभ्यस्तश्रुतेन धर्मकथा विधेयेति धर्मस्य- श्रुतरूपस्य कथा- व्याख्या धर्मकथेति / धर्मकथामन्थनिर्मथितमिथ्याभावाश्च भव्याः शुद्धं प्रत्याख्यानं प्रपद्यन्त 0 केवलमन्ते उत्तमयतिस्वामित्वादवसानलाभाद्। अत्र च मतिश्रुते परोक्षमितराणि प्रत्यक्षम् // 1 //