________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 617 // पश्चममध्ययनं पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 463-464 ज्ञानानि ज्ञानावरणीयाणि (ज्ञानस्वरूपम्) (नन्दीसू० 15) इति वचनात्, तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाण्यधिकानीति, तथा यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि यथा चमतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि यथा चमतिज्ञानं परोक्षमेवं श्रुतज्ञानमपि तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह च-जैसामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई। तब्भावे सेसाई तेणाईए मइसुयाई॥१॥ (विशेषाव 86) इति मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतेरुपन्यास इति, उक्तं च-मइपुव्वं जेण सुयं तेणाईए मई विसिट्ठो वा / मइभेओ चेव सुयं तो मइसमणंतरं भणियं॥१॥ इति तथा कालविपर्ययस्वामिलाभसाधान्मतिज्ञानश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेव मतिज्ञानश्रुतज्ञानयोः स्थितिकाल: प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञानश्रुतज्ञानयोर्विपर्ययज्ञाने भवत एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति, तथा य एव तयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति, उक्तंच-कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो॥ (विशेषाव० 87) तथा छास्थविषयभावाध्यक्षत्वसाधादवधिज्ञानानन्तरं मनःपर्यवज्ञानस्योपन्यासः, तथाहि- यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनःपर्यायज्ञानमपि, तथा यथाऽवधिज्ञानरूपिद्रव्यविषयमेवमेतदपि, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति, उक्तं च-माणसमेत्तो छउमत्थविसयभावादिसामन्ना (विशेषाव०८७) इति तथा मनःपर्यायज्ञानानन्तरं स्वामिकालकारणविषयपरोक्षत्वैर्यत्तुल्यानि / तद्भावे शेषाणि च तेनादौ मतिश्रुते॥१॥0 मतिपूर्व येन श्रुतं तेनादौ मतिर्विशिष्टो वा / मतिभेद एव श्रुतं ततो मतिसमनन्तरं भणितं श्रुतम् // 1 // 0 कालविपर्ययस्वामित्वलाभसाधर्म्यतोऽवधिस्ततः।। 0 मनोज्ञानमतश्छाद्यस्थ्यविषयभावादिसामान्यात्।