________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 616 // पश्चममध्ययन पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 463-464 ज्ञानानि ज्ञानावरणीयाणि (ज्ञानस्वरूपम्) यतेऽनेनास्मादस्मिन्वेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेत्यर्थः,सचावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधानं वा अवधिर्विषयपरिच्छेदनमित्यर्थोऽवधिश्चासौ ज्ञानंचेत्यवधिज्ञानम्, उक्तंच-तणावधीयते तमि वाऽवहाणं च तोऽवही सो य। मज्जाया जं तीए दव्वाइपरोप्परं मुणइ॥१॥ (विशेषाव० 82) इति, तथा परिः- सर्वतोभावे अवनमवोऽयनं वा अय आयो वा गमनं वेदनमिति पर्यायाः परि अवोऽय आयो वा पर्यवः पर्ययः पर्यायो वा मनसि मनसो वा पर्यवः पर्ययः पर्यायो वा मनःपर्यवो मनः पर्ययो मनःपर्यायो वा, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञान मनःपर्ययज्ञानं मनःपर्यायज्ञानं वा, अथवा मनसः पर्यायाः पर्यया: पर्यवा वा भेदा धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यर्थस्तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानं मनःपर्ययज्ञानं मनःपर्यवज्ञानमिति, आह च-पज्जवणं पज्जयणं पज्जाओ वा मणमि मणसो वा / तस्स व पज्जायादिन्नाणं मणपज्जवन्नाणं // 1 // (विशेषाव० 83) इति केवलं- असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलंवा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा अनन्यसदृशत्वादनन्तं वा ज्ञेयानन्तत्वाद् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तद् ज्ञानं चेति केवलज्ञानम्, उक्तं चकेवलमेगं सुद्धं सगलमसाहारणं अणतं च। पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं // 1 // (विशेषाव० 84) इति, प्राय इति मनःपर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वाद् / इह च स्वामिकालकारणविषयपरोक्षत्वसाधात्तद्भावेच शेषज्ञानसद्भावादादावेव मतिज्ञानश्रुतज्ञानयोरुपन्यास इति, तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, जत्थ मतिनाणं तत्थ सुयनाणं Oतेनावधीयते तस्मिन् वाऽवधानं च ततोऽवधिः स च / मर्यादा तस्मिन् द्रव्यादिपरः क्षेत्रादि परं जानाति ॥शापर्यवनं पर्ययनं पर्यायो वा मनसि मनसो वा / तस्य वा पर्यायादिज्ञानं मनःपर्यायज्ञानम् ॥१।केवलमेकं शुद्धं सकलमसाधारणमनन्तं च। प्रायेणायं ज्ञानशब्दो ज्ञानसमानाधिकरणः // 1 / / यत्र मतिज्ञानं तत्र श्रुतज्ञानम्। IEREN