________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 615 // पश्चममध्ययन पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 463-464 ज्ञानानि ज्ञानावरणीयाणि (ज्ञानस्वरूपम्) ज्ञायते वाऽनेनास्माद्वेति ज्ञानं- तदावरणस्य क्षयः क्षयोपशमोवा, ज्ञायते वाऽस्मिन्निति ज्ञानं-आत्मा तदावरणक्षयक्षयोपशमपरिणामयुक्तो, जानातीति वा ज्ञानं तदेव स्वविषयग्रहणरूपत्वादिति, प्रज्ञप्तं प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैरुक्तं चअत्थं भासइ अरिहा सुत्तं गंथति गणहरा निउणं। सासणस्स हियट्ठाए, तओ सुत्तं पवत्तइ॥१॥(आव०नि०९२, विशेषाव० 1119) इति अथवा प्राज्ञात्- तीर्थकरात् प्राज्ञैर्वा प्रज्ञया वा आप्तं- प्राप्तमात्तं वा प्राज्ञाप्तं प्रज्ञाप्तं प्राज्ञात्तं प्रज्ञात्तं वा, तद्यथाअर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयरूपत्वाद्बोधः- संवेदनमभिनिबोधः स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकम्, अभिनिबोधे वा भवं तेन वा निवृत्तम्, तन्मयं तत्प्रयोजनं वेत्याभिनिबोधिकम्, अभिनिबुध्यते वा तत् कर्मभूतमित्याभिनिबोधिकं- अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वाद्, भेदोपचारादित्यर्थः, अभिनिबुध्यते वा अनेनास्मादस्मिन् वेत्याभिनिबोधिकं-तदावरणकर्मक्षयोपशम इति भावार्थः, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत इत्याभिनिबोधिकम्, तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानमिति, आह च-अत्थाभिमुहो नियओ बोहो जो सोमओ अभिनिबोहो। सो चेवाभिणिबोहियमहव जहाजोग्गमाजोजं॥१॥ तं तेण तओ तम्मि य सो वाऽभिणिबुज्झए तओ वा तं॥ (विशेषाव०१११९)इति तथा श्रूयत इति श्रुतं-शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादिति भावार्थः, श्रूयते वा अनेनास्मादस्मिन्वेति श्रुतम्, तदावरणकर्मक्षयोपशम इत्यर्थः, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति श्रुतम्, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम्, आह च-तं तेण तओ तम्मि य सुणेइ सो वा सुयं च तेणंति // (विशेषाव० 81) इति तथा अवधी 0 अर्हन् भाषतेऽर्थं सूत्रं ग्रनन्ति गणधरा निपुणम् / शासनस्य हितार्थाय ततः सूत्रं प्रवर्तते॥१॥ 0 अर्थाभिमुखो नियतो बोधो यः सोऽभिनिबोधो मतः। स एवाभिनिबोधिकमथवा यथायोग्यं आयोज्यम् // 1 // तत्तेन ततस्तस्मिंश्च स वाऽभिनिबुध्यते ततो वा तत्। 0 तत्तेन ततस्तस्मिंश्च शृणोति स वा श्रुतं तेन / // 615 //