SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 614 // पञ्चममध्ययनं पक्षस्थानम्, तृतीयोद्देशकः सूत्रम् 463-464 ज्ञानानि ज्ञानावरणीयाणि (ज्ञानस्वरूपम्) छेदनस्य च विपर्यय आनन्तर्यमिति तदाह- पंचविहे त्यादि, आनन्तर्य- सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा / निरयगतौ जीवानामुत्कर्षतोऽसङ्खयेयाः समया, एवं व्ययस्यापि, प्रदेशानांच समयानांच तत्प्रतीतमेव, अविवक्षितोत्पादव्ययादिविशेषणमानन्तर्यमानं सामान्यानन्तर्यम्, श्रामण्यस्य वा आकर्षविरहेणानन्तर्य श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्यम्, तच्चाष्टौ समया इति // अनन्तरसूत्रे समयप्रदेशानामानन्तर्यमुक्तम्, ते चानन्ता इत्यनन्तकमेव प्ररूपयन्नाह-पंचविहे त्यादि सूत्रद्वयंप्रतीतार्थम्, नवरं नाम्ना अनन्तकं नामानन्तकमनन्तकमिति यस्य नाम, यथा समयभाषया 1 वस्त्रमिति, स्थापनैव स्थापनया वा अनन्तकं स्थापनानन्तकं - अनन्तकमिति कल्पनयाऽक्षादिन्यासो, ज्ञभव्यशरीरादिव्यतिरिक्तं द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्यानन्तकम्, गणना- सङ्ख्यानं तल्लक्षणमनन्तकमविवक्षिताण्वादिसङ्खयेयविषयः सङ्खयाविशेषो गणनानन्तकं, प्रदेशानां सङ्खयेयानामनन्तकं प्रदेशानन्तकमिति, एकत- एकेनांशेनायामल-8 क्षणेनानन्तकमेकतोऽनन्तकं-एकश्रेणीकं क्षेत्रम्, द्विधा-आयामविस्ताराभ्यामनन्तकं द्विधानन्तकं- प्रतरक्षेत्रम्, क्षेत्रस्य यो रुचकापेक्षया पूर्वाद्यन्यतरदिग्लक्षणो देशस्तस्य विस्तारो- विष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकम्, सर्वाकाशस्य तु चतुर्थम्, शाश्वतं च तदनन्तकं च शाश्वतानन्तकं- अनाद्यपर्यवसितं यज्जीवादिद्रव्यमनन्तसमयस्थितिकत्वादिति / एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह पंचविहे णाणे पं० तं०- आभिणिबोहियणाणे सुयनाणे ओहिणाणे मणपज्जवणाणे केवलणाणे ॥सूत्रम् 463 // __ पंचविहे णाणावरणिज्जे कम्मे पं० तं०- आभिणिबोहियणाणावरणिज्जे जाव केवलनाणावरणिज्जे ॥सूत्रम् 464 // पंचविहे त्यादि, पञ्चेति- पञ्चसङ्ख्या विधा:- भेदा यस्य तत्पञ्चविधम्, ज्ञातिर्ज्ञानमिति भावसाधनः संविदित्यर्थो, // 614 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy