________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् पञ्चममध्ययन पञ्चस्थानम्, तृतीयोद्देशकः भाग-२ सूत्रम् // 613 // 461-462 जीवनिर्याणमार्गाः५, छेदनानि 5, आनन्तर्यानि 5, अनन्तका:१० गणणाणंतते पदेसाणंतते, अहवा पंचविहे अणंतते पं० तं०- एगंतोऽणंतते दुहतोणंतए देसवित्थारणंतए सव्ववित्थाराणंतते सासयाणंतते॥सूत्रम् 462 // पंचविहे त्यादि व्यक्तम्, किन्तु निर्याणं- मरणकाले शरीरिणः शरीरान्निर्गमस्तस्य मार्गो निर्याणमार्गः- पादादिकः, तत्र पाएहिं ति पादाभ्यां मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीवः शरीरान्निर्यातीति शेषः, एवं उरुभ्यामित्यादावपि, अथ क्रमेणास्य निर्याणमार्गस्य फलमाह- पादाभ्यांशरीरान्निर्यान् जीवो निरयंगामि त्ति प्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यब्रापि, नवरं सर्वाणि च तान्यङ्गानिच सर्वाङ्गानि तैर्निर्यान् सिद्धिगतिः पर्यवसानं-संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसानः प्रज्ञप्त इति / निर्याणंचायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह-पंचविहे त्यादि कण्ठ्यम्, केवलं उप्पत्ति उत्पादो देवत्वादिपर्यायान्तरस्य तेन छेदो- जीवादिद्रव्यस्य विभाग उत्पादच्छेदनम्, तथा विय त्ति व्ययो विगमो मानुषत्वादिपर्यायस्य तेन छेदनंजीवादेरेवेति व्यवच्छेदनम्, तथा बन्धनस्य-जीवापेक्षया कर्मणः स्कन्धापेक्षया तुसम्बन्धस्य छेदनं-विनशनंबन्धच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतोबुद्ध्या छेदनं-विभजनं प्रदेशच्छेदनम्, तथा जीवादेरेव द्रव्यस्य द्विधाकरणं द्विधाकारः स एव छेदनं द्विधाकारच्छेदनम्, उपलक्षणं चैतत्रिधाकारादीनाम्, अनेन च देशतश्छेदनमुक्तम्, अथवोत्पादस्यउत्पत्तेश्छेदनं-विरहो यथा नरकगतौ द्वादश मुहूर्ता, व्ययच्छेदनं- उद्वर्त्तनाविरहः, सोऽप्येवम्, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्मबन्धनापेक्षया, प्रदेशच्छेदनं- प्रदेशविरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानाम्, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपिदृश्यम्, तच्च क्षुरखड्गचक्राद्यम्, तच्च छेदनशब्दसाम्यादिहोपात्तमिति, प्रदेशच्छेदनस्थाने क्वचित् पंथच्छेयणे त्ति पठ्यते, तत्र पथिच्छेदनं-मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः / /