________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 612 // पश्चममध्ययनं पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 461-462 जीवनिर्याणमार्गा: 5, छेदनानि५, आनन्तर्यानि 5, अनन्तका:१० द्यवस्थां यान्ति, तथा अनृतुषु- अस्वकालं ददति- प्रयच्छन्ति पुष्पफलम्, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूता माघादिषु पुष्पादि यच्छन्तीति, तथा वर्ष- वृष्टिं मेघो न सम्यग्वर्षति यत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरं कार्मणम्, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ॥ पुढविगाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रसंमाधुर्यस्निग्धतालक्षणं पुष्पफलानां च ददात्यादित्यस्तथास्वभावत्वात्, तथाविधोदकाभावेऽपीति भावः, अत एवाल्पेनापि वर्षेण सम्यक्-यथाभिमतं निष्पद्यते सस्य- शाल्यादिधान्यं स लक्षणत आदित्यसंवत्सर उच्यत इति शेष इति / आइच्च गाहा, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यम्, तत्र क्षणो- मुहूर्तो लव- एकोनपञ्चाशदुच्छ्रासप्रमाणो दिवस:- अहोरात्र ऋतु- सिद्वयप्रमाणः परिणमन्ति अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभिः स्थलानि- भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिवर्द्धितं 'जाण'त्ति त्वमपि शिष्य! तं तथैव जानीहीति / संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण प्रायो लिखितमिति / अनन्तरं संवत्सर उक्तः, सच कालः, कालात्यये च शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्ग निरूपयन्नाह पंचविधे जीवस्स णिज्जाणमग्गे पं० तं०- पातेहिं उरूहिं उरेणं सिरेणं सव्वंगेहिं, पाएहिं णिज्जाणमाणे निरयंगामी भवति, ऊरूहिं णिजाणमाणे तिरियगामी भवति, उरेणं निजायमाणे मणुयगामीभवति, सिरेणं णिज्जायमाणे देवगामी भवति, सव्वेहिं निज्जायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते॥सूत्रम् 461 // पंचविहे छेयणे पं० तं०- उप्पाछेयणे वियच्छेयणे बंधच्छेयणे पएसच्छेयणे दोधारच्छेयणे। पंचविधे आणंतरिएपं० तं०- उप्पातयणंतरिते वितणंतरिते पतेसाणंतरिते समताणंतरिए सामण्णाणंतरिते। पंचविधे अणंते पं० त०-णामणंतते ठवणाणंततेदव्वाणंतते // 612 //