________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ पश्चममध्ययनं पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 455-457 अचेलकप्राशस्त्यकारणा // 607 // दण्डा द्रष्टव्या इति / योऽयं वनीपक उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तं०- अप्पा पडिलेहा 1 लाघविए पसत्थे 2 रूवे वेसासिते 3 तवे अणुन्नाते 4 विउले इंदियनिग्गहे 5 // सूत्रम् 455 // पंच उक्कला पन्नत्ता तं०-दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले सव्वुक्कले।सूत्रम् 456 // पंच समितीतोपं० तं०-ईरियासमिती भासा० जाव पारिठावणियासमिति ॥सूत्रम् 457 // पंचही त्यादि प्रतीतम्, नवरं न विद्यन्ते चेलानि- वासांसि यस्यासावचेलकः, स च जिनकल्पिकविशेषस्तदभावादेव तथा जिनकल्पिकविशेषः स्थविरकल्पिकचाल्पाल्पमूल्यसप्रमाणजीर्णमलिनवसनत्वादिति, प्रशस्तः प्रशंसितस्तीर्थकरगणधरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघोर्भावो लाघवंतदेव लाघविकं द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तं- अनिन्द्यं स्यात्, तथा रूपं- नेपथ्यं वैश्वासिकं- विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्यादिति, तथा तपः- उपकरणसंल्लीनतारूपमनुज्ञातं-जिनानुमतं स्यात्, तथा विपुलो-महानिन्द्रियनिग्रहः स्याद्, उपकरणं विना स्पर्शनप्रतिकूलशीतवातातपादिसहनादिति / इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेव कर्तुं शक्य इत्युत्कटभेदानाह- पंचे त्यादि सुगमम्, नवरं उक्कल त्ति उत्कटा उत्कला वा, तत्र दण्डः- आज्ञा अपराधे दण्डनं वा सैन्यं वा उत्कट:- प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोत्कटो, दण्डेन वोत्कलति-वृद्धिं याति यः स दण्डोत्कलः, इत्येवं सर्वत्र, नवरं राज्यं-प्रभुता स्तेनाश्चौराः देशो- मण्डलं सर्वं- एतत्समुदय रजोहरणमुखवस्त्रिकारूपद्विविधोपकरणधारकः। ॐ शेषाः सर्वेऽपि त्रिविधाधुपकरणधारिणः / धुत्कल समितयः // 607 //