________________ पञ्चस्थानम्, श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 597 // सूत्रम् 445 पुलाका स्वरूपम ग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोल्लङ्घनमाचरन्ति ते प्रतिसेवनाकुशीला:, येषां तु संयतानामपि सतां कथञ्चित्सज्वलनकषाया उदीर्यन्ते ते पञ्चममध्ययन कषायकुशीलाः। निर्गतो ग्रन्थान्मोहनीयाख्याद् निर्ग्रन्थः क्षीणकषाय उपशान्तमोहोवा, क्षालितसकलघातिकर्ममलपटलत्वात् तृतीयोद्देशकः स्नात इव स्नातः स एव स्नातकः, सयोगोऽयोगो वा केवलीति। अधुनैत एव भेदत उच्यन्ते, तत्र पुलाक इत्यासेवापुलाकः / पञ्चविधो, लब्धिपुलाकस्यैकविधत्वात्, तत्र स्खलितमिलितादिभिरतिचारैर्ज्ञानमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाकः, दिनिर्ग्रन्थएवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाको, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाको यथोक्तलिङ्गाधिकग्रहणाद्, निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किञ्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पञ्चम इति, बकुशो द्विविधोऽपि पञ्चविधः, तत्र शरीरोपकरणविभूषयोः सञ्चिन्त्यकारी आभोगबकुशः,सहसाकारी अनाभोगबकुशः,प्रच्छन्नकारी संवृतबकुशः, प्रकटकारी असंवृतबकुशो, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वम्, किश्चित्प्रमादी अक्षिमलाद्यपनयन् वा यथासूक्ष्मबकुशो नाम पञ्चम इति, कुशीलो द्विविधोऽपि पञ्चविधः, तत्र ज्ञानदर्शनचारित्रलिङ्गान्युपजीवन् प्रतिषेवणतो ज्ञानादिकुशीलो, लिङ्गस्थाने क्वचित्तपो दृश्यते, तथा अयं तपश्चरतीत्येवमनुमोद्यमानो हर्षं गच्छन् यथासूक्ष्मकुशीलः प्रतिषेवणयैवेति, कषायकुशीलोऽप्येवं नवरं क्रोधादिना विद्यादिज्ञानं प्रयुञ्जानो ज्ञानकुशीलो, दर्शनग्रन्थं प्रयुञ्जानो दर्शनतः, शापं ददत् / चारित्रतः, कषायैर्लिङ्गान्तरं कुर्वन् लिङ्गतो, मनसा कषायान् कुर्वन् यथासूक्ष्मः। चूर्णिकारव्याख्या त्वेवं-'सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीलाः, कषायकुशीलास्तु पञ्चसु // 597 // ज्ञानादिषु येषांकषायैर्विराधना क्रियत' इति / अन्तर्मुहूर्त्तप्रमाणाया निर्ग्रन्थाद्धायाः प्रथमे समये वर्तमान एकः शेषेषु द्वितीयोऽन्तिमे तृतीयः शेषेषु चतुर्थः सर्वेषु पञ्चम इति विवक्षया भेद एषामिति / छवि:- शरीरं तदभावात्काययोगनिरोधे सति