________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ पचममध्ययन पञ्चस्थानम्, तृतीयोद्देशक: सूत्रम् 445 पुलाकादिनिर्ग्रन्थस्वरूपम् // 596 // // सूत्रम् 445 // पंच नियंठे त्यादि, सूत्रषट्कं सुगमम्, नवरं ग्रन्थादाभ्यन्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्ग्रन्थाः, पुलाकस्तन्दुलकणशून्या पलंजि तद्वद् यस्तपःश्रुतहेतुकायाः सङ्घादिप्रयोजने चक्रवर्त्यादेरपि चूर्णनसमर्थाया लब्धेरुप-8 जीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहितः स पुलाकः, अत्रोक्तं- जिनप्रणीतादागमात् सदैवाप्रतिपातिनो ज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थपुलाका भवन्ती ति, बकुशः शबल: कर्बुर इत्यर्थः, शरीरोपकरणविभूषानुवर्तितया है शुद्ध्यशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविधो, यदाह- मोहनीयक्षयं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्त्तिनस्तत्र शरीरे अनागुप्तव्यतिकरण करचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्यो विदूषिकामलाद्यपनयनं दन्तपवनलक्षणं केशसंस्कारं च देहविभूषार्थमाचरन्तः शरीरबकुशाः, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवासःप्रियाः पात्रदण्डकाद्यपि तैलमात्रयोज्ज्वलीकृत्य विभूषार्थमनुवर्तमाना बिभ्रति, उभयेऽपि च ऋद्धियशस्कामास्तत्र ऋद्धिं प्रभूतवस्त्रपात्रादिकां ख्यातिं च गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपां कामयन्ते, सातगौरवमाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः, अविविक्तपरिवारा:नासंयमात् पृथग्भूतो घृष्टजङ्घस्तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशश्च परिवारो येषामिति भावः, बहुच्छेदशबलयुक्ताः- सर्वदेशच्छेदाहा॑तिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इतितथा कुत्सितमुत्तरगुणप्रतिषेवया सज्वलनकषायोदयेन वा दूषितत्वात् शीलं-अष्टादशशीलाङ्गसहस्रभेदं यस्य सकुशील इति, एषोऽपि द्विविध एव, अत्राप्युक्तं- द्विविधाः कुशीला:-प्रतिसेवनकुशीलाः कषायकुशीलाच, तत्र ये नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियतेन्द्रियाः कथञ्चित्किञ्चिदेवोत्तरगुणेषु-पिण्डविशुद्धिसमितिभावनातपःप्रतिमाभि 7 दन्तपावन (मु०)। // 596