________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 74 // माश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्गं प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकायक्रियेति 5 / आधिकरणिकी द्विधा, तत्र संजोयणाहिगरणिया चेव त्ति यत्पूर्वं निर्वर्तितयोः खड्गतन्मुष्ट्यादिकयोरर्थयोः संयोजनं क्रियतेसा संयोजनाऽऽधिकरणिकी, तथा णिव्वत्तणाहिकरणिया चेव त्ति यच्चादितस्तयोनिवर्त्तनं सा निर्वर्तनाधिकरणिकीति 6 / पुनरन्यथा द्वे- पाउसिया चेव त्ति प्रद्वेषो-मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, तथा पारियावणिया चेव त्ति परितापनं- ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी 7 / आद्या द्विधा- जीवपाउसिया चेव त्ति जीवे प्रद्वेषाजीवप्राद्वेषिकी, तथा अजीवपाउसिया चेव त्ति अजीवे-पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकीति 8 / द्वितीयाऽपि द्विविधा- सहत्थपारियावणिया चेव त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारितापनिकी तथा परहत्थपारियावणिया चेव त्ति परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति 9 / अन्यथा द्वे पाणाइवायकिरिया चेव त्ति प्रतीता, तथा अपच्चक्खाणकिरिया चेव त्ति अप्रत्याख्यानंअविरतिस्तन्निमित्तः कर्मबन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति 10 / आद्या द्वेधा- सहत्थपाणाइवायकिरिया चेव त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा परहत्थपाणाइवायकिरिया चेव त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति 11 / द्वितीयापि द्विधा, जीवअपच्चक्खाणकिरिया चेव त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिापारः सा जीवाप्रत्याख्यानक्रिया, तथा अजीवअपच्चक्खाणकिरिया चेव त्ति यदजीवेषु- मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति 12 / पुनरन्यथा द्वे आरंभिया चेव त्ति आरम्भणमारम्भः, तत्रभवा आरम्भिकी, तथा पारिग्गहिया चेव त्ति परिग्रहे भवापारिग्रहिकी१३। आधा द्वेधा जीवआरम्भिया चेव त्ति यज्जीवानारभमाणस्य- उपमृगतः कर्मबन्धनं सा जीवारम्भिकी, तथा अजीवआरंभिया चेव त्ति यच्चाजीवान् जीव द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 58-59 जीवाजीवादिभेदे द्विप्रत्यवतारः सूत्रम् 60 जीवाजीवक्रियादीनि 36 सूत्राणि / / 74 //